________________
३१४
समराङ्गणसूत्रधारे
तेनोत्ताने (न) वलता (वेदातुरनन्तरम् ) । तिर्यक् मस तूत्तानो वहिश्राविकृताननैः || १४५ ॥ सत्ये चानुमतौ चैव (हस्त एष) विधीयते । एवमेव प्रयोक्तव्यो युक्ते ( पैय्येशमध्यमः १) || १४६ ॥ द्वाभ्यामेकेन वा (स्तुतों की ) मण्डलावस्थितेन च । विचारितं प्रयोक्तव्यं विहृतं लज्जि (तं) तथा ॥ १४७ ॥ वदनं तत्र कर्तव्यमविकार्य नतर्भुवा । वितर्कितमुरोभ्यर्णे मण्डलावस्थितेन तु ॥ १४८ ॥ अधोमुखेन पुरतः कार्य विश्लिष्यता तथा । मुखं चात्रिकृतं तत्र कार्यमभ्युन्नते शिरस्तु वामतो (तत्र तं च पुन: १) | उभाभ्यां नयनाभ्यां (तु) मृगकर्णप्रदर्शनम् ॥ १५० ॥
|| १४९ ॥
कार्यं तदेशवर्तिभ्यां सम्रक्षे (प) विचक्षणैः | उत्तानेन युतेनाथ पत्राकारं प्रदर्शयेत् ।। १५१ ।।
हस्तेन (चंतुरा खे?) विनमय्य ध्रुवं मनाक् । लीलां रतिं स्मृतिं बुद्धिं संज्ञामायाविचारणा ( : ) ।। १५२ ।। सङ्गतं प्रणयं (शौचमावर्त्य ) भावमक्षमम् । पुष्टिं (सविच ) शीलं च चातुर्य मार्दवं सुखम् ॥ १५३ ॥ (स्त) वार्ता च वेषं च युक्ति दाक्षिण्ययौवने । विभवाविभवोस्तोकं सुरतं (सेंदूर) मृदु ॥ १५४ ॥ गुणागुणौ गृहा दारा वर्णा नानाविधाश्रयाः । चतुरेणाभिनेतव्यास्ते सर्वेऽपि यथोचितम् ।। १५५ ॥
१. ' दर्शयेदातुरं नरम्' इति स्यात् । २. 'पथ्ये शमे यमे' इति वा, 'पथ्ये च मध्यमे' इति वा स्यात् । ३ 'स्तोकं' इति स्यात् । ४. 'विवृतविवारितरचितम् ' इति तु मुद्रितमुनिपाठः । ५. 'चतुराख्येन' इति स्यात् । ६. 'शौचं माधुर्य' इति मुनिसम्मतः पाठ: । ७. 'बादल' इति स्यात् ।
"Aho Shrut Gyanam"