________________
पताकादिचतुष्पष्टिहस्तलक्षणं नाम त्र्यशीतितमोऽध्यायः । ३१३ त्रेताग्निसंस्थिता मध्यातर्जन्यङ्गुष्ठका मता(:) । काङ्गलेऽनामिका वक्रा तथाचो(वा) कनीयसी ।। १३४ ॥ (त्रेतोत्तनेन) कर्क(न्तुन्धू प्रभृतीनि प्रदर्शयेत् । तरुणानि फलान्यन्यद् वस्तु किश्चिच यल्लघु ॥ १३५ ।। वाक्या(नान्य)ङ्गुलिविक्षेपैः स्त्रीणां रोषकृतानि च । मुक्तामरकतादीनां (रत्नानां) च प्रदर्शनम् ॥ १३६ ॥ हस्तेनानेन कर्तव्यं ध्रुवौ (चारपृष्टष्टगे)।
इति काफूलः ।। आवर्तिन्यः करतले यस्याङ्गुल्यो भवन्ति हि ॥ १३७ ।। पार्थागता विकीर्णाश्च सोऽलपद्मः प्रकीर्तितः । तिर्यक् पुरःस्थितः कार्यो हस्तोऽयं प्रतिषेधने ।। १३८ ॥ कस्य त्वमिति नास्तीति वाक्ये शून्ये च धीमता। आत्मोपन्यसने स्त्रीणां (न सन्देशच्छेतो?) भवेत् ॥ १३९ ॥ अस्य चानुगता दृष्टिर्विधातव्या ध्रुवौ तथा ।
इत्यलपमः ।। अगुल्या प्रस्तास्तिस्रस्तथाचो(या) कनीयसी ॥ १४० ॥ तासां मध्ये स्थितोऽङ्गुष्ठः स करश्वतुरः स्मृतः । अधोमुखः प्रचलितो (मतस्येन ततत्कथा) ॥ १४१ ॥ विनये च नये चायं कार्योऽभिनयवेदिना । (वैर्गुणा तूनतशिवा साः कृस्वा भ्रतां श्रुवा) ॥ १४२ ।। विदध्याच्चतुरं हस्तमुत्तानं नियमे पुनः । किन्तु ध्रुवं + कु(टिलां) विनयं प्रति नाचरेत् ॥ १४३ ॥ अधोमुखेन हस्तेन तेन बालं प्रदर्शयेत् । बालप्रदर्शने कुर्याद् (कुंटीविनतानिरः!) ।। १४४ ॥
१. 'तेनोत्तानेन' इति स्यात् । २. 'चोत्सृष्टदृष्टिगे' इति स्यात् । ३. 'सन्देशे चोच्छ्रितो' इति स्यात् । ४. नैपुणे तून्नतशिराः सत्वे कृत्वोन्नतां ध्रुवम्' इति स्यात् । ५. 'भुकटीविनतं शिरः' इति स्यात् ।
"Aho Shrut Gyanam"