________________
२९७
पञ्चपुरुषस्त्रीलक्षणं नामैकाशीतितमोऽध्यायः । विंशतिश्चागुलान्यूरू जानुनी चागुत्रयम् । विंशत्यङ्गुलमायामं जयोस्तस्य निर्दिशेत् ।। १७ ॥ अगुलत्रितयं गुल्को कुर्यात् तस्य शिरोऽपिच । द्विनवत्यगुलायामो रुचकः परिकीर्तितः ।। १८ ।। इत्यायामोऽस्य विस्तारो वक्षसोऽगुलविंशतिः । भुजौ दशाङ्गुलायामौ प्रकोष्ठौ तद्वदेव च ॥ १९ ॥ एकादशाङ्गुलौ हस्तौ विस्तारेणास्य कीर्तितौ । पीनांसः पीनबाहुश्च स(लिली)लगतिचेष्टितः ।। २० ॥ बलवान् वृत्तबाहुः स्याद् रुचको रुचकाकृतिः। भद्रस्य प्राहुरायाम मस्तकस्याङ्गुलत्रयम् ।। २१ ॥ एकादशाङ्गुला ++ ग्रीवा सार्धागुलत्रया । वक्षो जठरमप्यस्य सपादैकादशाङ्गुलम् ॥ २२ ॥ नाभिमेदान्तरं चास्य विद्यात् सार्धदशाङ्गुलम् । आयाममूर्वोजानीयात् सपादाङ्गुलविंशतिम् ॥ २३ ॥ जङ्ग्रे च तावदायामे जानुगुल्फ त्रिमात्रकम् । (चतुर्तवतिसरामो चन्द्रस्यैष?) प्रकीर्तितः ॥ २४ ॥ आयाम एष विस्तारो वक्षसस्त्वेकविंशतिः । एकादशाङ्गुलौ बाहू तस्य ++++++ ॥ २५ ॥ हंसादिपुंसामिदमेवमुक्तं
यद्वा यथालक्षणमानमत्र । स्त्रीणां च सम्यग (गदिता सुखानाद!) __ यो वेत्ति मान्यः स भवेन्नृपाणाम् ॥ २६ ।। इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारनानि वास्तुशास्त्रे पञ्चपुरुषस्त्रीलक्षणं नामाध्या(योऽय एका)शीतितमः ।।
१. 'चतुवतिरायामो भद्रस्यैष' इति स्यात् । २. 'अवशिष्टानामङ्गानां विस्तारसभिवेशादि कं, मालम्यादिलक्षणं चेह अषम् । तदेतत् २८५ सम पृष्ठे मिश्रितात् 'एय. वि' इत्यादिवाक्यजातादवगन्तव्यम् ।
"Aho Shrut Gyanam"