________________
२९८
समराङ्गणसूत्रधारे अथ रसदृष्टिलक्षणं नाम द्व्यशीतितमोऽध्यायः ।
रसानाम(स्यथ) वक्ष्यामो दृष्टीनां (इ) लक्षणम् । तदायत्ता यतश्चित्रे भावव्यक्तिः प्रजायते ॥ १॥ शृङ्गारहास्यकरुणा रौद्रप्रेयोभयानकाः । वीर(प्रत्ययाक्षौ?) च बीभत्सश्चाद्भुतस्तथा ॥ २ ॥ शान्तश्चैकादशेत्युक्ता रसाश्चित्रविशारदैः । निगद्यते क्रमेणैषां सर्वेषामपि लक्षणम् ॥ ३ ॥ सभ्रूकम्प(कटीक्षपेच?) तथा प्रेमगुणान्वितः । यन्त्रेष्टललिता चेष्टा स शृङ्गारो रसः स्मृतः ।। ४ ।। विकासिललितापाजो मृदु चा(१)स्फुरिता(धारः।। लीलया सहितो यश्च स हास्यो रस उच्यते ।। ५ ।। अश्रुक्लिन्नक(पो)लान्तः शोकसङ्कुचितेक्षणः । चित्तसन्तापसंयुक्तः प्रोच्यते करुणो रसः ॥ ६ ॥ निर्मार्जितललाटान्तः संरक्तोद्वृत्तलोचनः । दन्तदष्टाधरोष्ठो यः स रौद्रो रस उच्यते ॥ ७ ॥ अर्थलाभसुतोत्पसिप्रियदर्शनहर्षजः । सञ्जातपुलकोद्भेदो रसः प्रेमा स उच्यते ॥ ८॥ वैरिदर्शनविनाससम्भ्रमोद्धान्तलोचनः । हृदि संक्षोभयोगाच रसो ज्ञेयो भयानकः ॥९॥ (अष्टावष्टम्भसमे)सूत्रसङ्कुचितानतः । धैर्यवीर्यबलोत्प(मान्नः) स वीरस्तु रसः स्मृतः ॥ १० ॥ (ईषेदुप्तसित्तत्र कस्तच्चा)स्तिमिततारकः । असम्भाव्यं विलोक्यार्थमद्भुतो जायते रसः ॥ ११ ॥ १. 'चेह' इति स्यात् । २. इह वीरादनन्तरयोर्दयो रसयोर्लक्षणं लुप्तम् ।
"Aho Shrut Gyanam