SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ २९६ समराङ्गणसूत्रधारे एवमेवोदरं नाभिमेढ्योरन्तरं दश । विंशतिश्चाङ्गुलान्युरू जत्रे च त्रीणि जानुनी ।। ५ ।। त्रीण्यगुलान्यङ्गुले च केशभूरङ्गुलद्वयम् । केशान्तमानं सर्वेषामधिकं स्यात् स्वमानतः ॥ ६ ॥ विस्तारेण भवेद् वक्षस्तस्यैवाङ्गुलविंशतिः । द्वादशाङ्गुल(विस्तारो बाहुसंसस्य) निर्दिशेत् ।। ७ ॥ दशाङ्गुलौ प्रकोष्ठौ च (हस्ततथे ++++ ?) । तथा पृथक्पृथक् च्छोणिः पीनाङ्गुलि(?) ततो भवेत् ॥ ८॥ हंसस्वभावेन पृथग + + म्भारनासिकः (१) । (शेसस्यः) व्यङ्गुलं ++ नासिका वक्त्रमेव च ॥ ९॥ ग्रीवापि तत्प्रमाणैव (यव)क्षस्त्वेकादशाङ्गुलम् । तथादरं तथा नाभिमेढ़योरन्तरं दश ॥ १० ॥ ऊरू विंशतिमात्रौ च शशस्य परिकीर्तितौ । व्यङ्गुले जानुनी (लज)ङ्के मात्राविंशतिमायते ।। ११ ।। गुल्फो च व्यगुलायामौ तावन्मात्रं शिरो भवेत् । आयामो(य?ऽयं) शशस्यै(व?) स्यान्नवत्यगुलोन्मितः।। १२ ॥ द्वाविंशत्यङगुलं (वैक्ष्यां) विस्तारेणास्य कीर्तितम् । बाहुप्रबाहू पाणी च शशकस्यापि हंसवत् ।। १३ ।। समयाच्च स कर्त(व्या?व्य): स्वभावाच्च कृशोदरः । (तथोयवेत् केशोरुजको द्विद्वान् ?) विचक्षणः ॥ १४ ॥ रुचकस्य (तुखायामद्याम?) प्रोक्तः सार्धदशाङ्गुलः । ग्रीवाङ्गुलत्रयं सार्धमायामेनास्य कीर्तिता ।। १५ ।। एकादशाङ्गुलो(व्यापूर्वकृस्तस्य?) प्रमाणतः । तावन्त्येवोदरं तस्य नाभिमेद्वान्तरं दश ॥ १६ ॥ १. 'विस्तारौ बाहू इंसस्य' इति स्यात् । २. 'शशस्य' इति स्यात् ३. 'वक्षो' इति स्यात्। ४. 'मुस्खायामः' इति स्यात् । ५. 'न्याहुर्वक्षस्तस्य' इति स्यात् । "Aho Shrut Gyanam"
SR No.009669
Book TitleSamarangana Sutra Dhara Part 2
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1925
Total Pages364
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy