________________
२९२
समराङ्गणसूत्रधारे
अथ वैष्णवादिस्थानकलक्षणं नामाशीतितमोऽध्यायः ।
अथान्यान्यभिधीयन्ते चेष्टास्थानान्यनेकशः । यानि ज्ञात्वा न मुह्यन्ति++चित्रविचक्षणाः ॥ १॥ वैष्णवं समपादं च वैशाख मण्डल तथा । प्रत्यालीढमथालीदं स्थानान्येतानि (लक्षणम् ?) ।। २ ।। (अश्वक्रामत्तमथायामविहितनाकत्रयं स्त्रीणाम् !) । द्वौ तालावधतालश्च पादयोरन्तरं भवेत् ॥ ३॥ तयोः समन्वितस्त्वैकस्यश्रः पक्षस्थितोऽपरः । किञ्चिदश्चितजहुंच (शगात्रभोज्यचसंयुतम्) ।। ४ ॥ वैष्णवस्थानभेतद्धि विष्णुरत्राधिदैवतम् । समपादे समौ पादौ तालमात्रान्तरस्थितौ ॥ ५॥ स्वभावसौष्ठवोपेतौ ब्रह्मा चात्राधिदैवतम् । तालास्त्रयोऽर्धतालश्च पादयोरन्तरं भवेत् ।। ६ ॥ अश्रमेकं द्वितीयं च पादं पक्षस्थितं लिखेत् । (नैषमोरु?) भवत्येवं स्थानं वैशाखसंज्ञितम् ।। ७ ॥ विशाखो भगवानस्य स्थानकस्याधिदैवतम् । ऐ(न्द्रीन्द्र) स्यान्मण्डलं पादौ चतु(?स्ता लान्तरस्थितौ ॥ ८॥ ध्य(स्थाश्र)पक्षस्थिरत?ति)चैव कटिर्जानुसमा तथा । प्रसार्य दक्षिणं पादं पञ्चतालान्तरस्थितम् ॥ ९ ॥ आलीढं स्थानकं कुर्याद् रुद्रश्चात्राधिदैवतम् । कुञ्चितं दक्षिणं कृत्वा वामपादं प्रसारयेत् ।। १० ।। आलीढं परिव(ती)न प्रत्यालीढमिति स्मृतम् । दक्षिणस्तत्र समः(१) पादस्यश्रः पक्षस्थितोऽपरः ॥११॥ समुन्नतकटिर्वामश्चावहित्थं तदुच्यते । एकः समस्थितः पादो द्वितीयोऽग्रतलान्वितः ॥ १२ ॥ १. 'लक्षयेत्' इति स्यात् ।
"Aho Shrut Gyanam"