________________
समराङ्गणसूत्रधारे निगूढस(न्धे?न्धि)करणां समायतिमृजुस्थिताम् । ('ईदृशां राणायेदर्घा?) प्रमाणगुणसंयुताम् ।। १९ ॥ समोपचितमांसाझाः पुरुषाः स्युः समासतः । प्रमाणलक्षणयुता वस्त्ररत्नविभूषितः (१) ॥ २० ॥ (क्षान्त) गुणान् परिकलय्य च दोषजात
मर्चा यथोदितगुणां (विदधीता मतून्याः) । शिष्यत्वमेत्य विविध(त्स!)मुपासतेऽन्ये
तं शिल्पिनः कृत(ध्ये?धि)यश्च मुहुः स्तुवन्ति ॥ २१ ॥ इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारनानि वास्तुशास्त्रे
दोषगुणाध्यायो ना(म सप्त?माष्ट)सप्ततितमः ।।
अथ ऋज्वागतादिस्थानलक्षणं
नामैकोनाशीतितमोऽध्यायः ।
अत ऊर्ध्व प्रवक्ष्यामि (नेविस्थानविधिक्रमम् । (संपात्यारुघाणां?) हि जायन्ते नव वृत्तयः ।। १ ।। (पूर्वभृष्कागतं तेषां ततोऽवं क्षरगतं भवेत्) । ततः (शचीक्षतं?) विद्यादध्यर्धाक्षमनन्तरम् ॥ २॥ चत्वार्ध्वागतादीनि परावृत्तानि तानि च । ऋज्वागतपरा(तात्त) ततोऽर्धवागतादिकम् ॥ ३॥ (शचीकृत् !)परावृत्तं ततोऽध्यर्धाक्षपूर्वकम् । पा(प्री )गतं च नवमं स्थानं भित्तिकविग्रहम् ॥ ४ ॥ ऋज्वर्धऋजुनोमध्ये चत्वारि व्यन्तराणि च । अधैर्जुसाचीकृतयोमध्ये च व्यन्तरत्रयम् ।। ५ ।।
1. ईदृशी कारयेद इति स्यात् । २. ज्ञाता' इति स्यात् । ३. 'विदधीत भूत्यै' इति स्थान । ४. 'पूर्वमृज्वागतं तेषां ततोऽधागतं भवेत्' इति स्यात् । ५. 'साचीकृतम्' इति स्यात् । ६. 'साचीकृत' इति स्यात् ।
"Aho Shrut.Gyanam"