________________
२७६
समराङ्गणसूत्रधारे हीनास्तेभ्योऽपि गन्धर्वा गन्धर्वेभ्योऽपि पन्नगाः । नागेभ्यो राक्षसा हीनाः क्रूर(विक्रिमतमूषिणः) ।। ६५ ॥ विद्याधराश्च यक्षेभ्यो हीनदेह(ताधाराः स्मृताः । चित्रमाल्याम्बरधराश्चित्रचमासिपाणयः ।। ६६ ॥ नानावेषधरा घोरा भूतसङ्घा भयानकाः । पिशाचेभ्योऽधिकाः स्थूलास्तेजसा परुषास्तथा ।। ६७॥ अन्यूनाधिकरूपांश्च कुर्वीत प्रायशः शुभान् । *(दिव्यैरासणाभरणैश्च युक्ताः
कृतीथविदधीत यथोदितांस्तान्?) ॥ ६८ ॥ इति महाराजाधिराजलीभोजदेवविरचिते समराङ्गणसूत्रधारनानि वास्तुशास्त्रे देवादिरूपप्रहरणसंयोगलक्षणाध्यायो नाम (षटू?सप्त)सप्ततितमः ॥
अथ दोषगुणनिरूपणं नामाष्टसप्ततितमोऽध्यायः ।
अथ वानि रूपाणि महे दिकर्मसु । यथोक्तं शास्त्रतत्त्वज्ञैर्गोब्राह्मणहितार्थिभिः ॥ १ ॥ अशास्त्रज्ञेन घटि(तारतं) शिल्पिना दोषसंयुतम् । अपि माधुर्यसम्पन्न (न) ग्राह्य शास्त्रवेदिभिः ॥ २॥ अश्लिष्टस(न्धेन्धि) विभ्रान्तां वक्रां चावनतां तथा । अस्थितामुन्नतां चैव काकजङ्क तथैव च ॥ ३ ॥ प्रत्यङ्गहीनां विकटां मध्ये ग्रन्थिनता तथा । ईदृशी देवतां प्रा(हि?ज्ञो हि)तार्थं नैव कारयेत् ॥ ४ ॥ अश्लिष्टसन्ध्या मरणं भ्रान्तया स्थानविभ्रमम् । वक्रया कलहं विद्यान्नतया (मिवसः) क्षयम् ॥ ५ ॥
इदमशुद्ध वसन्ततिलक श्लोकस्यार्धम् , अर्धान्तरं तु भ्रष्टम् । १. 'वयसः' इति स्यात् ।
"Aho Shrut Gyanam"