________________
देवादिरूपप्रहरणसंयोगलक्षणं नाम सप्तसप्ततितमोऽध्यायः। २७५ कर्तव्या श्रीः प्रसन्नास्या प्रथमे यौवने स्थिता । गृहीतशूलपरिघ(पाहिका?)पट्टिसध्वजा ।। ५२ ।। बिभ्राणा खेटकोपेतलघुखड्गं च पाणिना | घण्टामेकां च सौवर्णी दधती घोररूपिणी ।। ५३ ।। कौशिकी पीतकौशेयवसना सिंहवा(हना । (सेचोष्टौ?) + विधातव्याः शुक्लाम्बरधराः + + ।। ५४ ॥ शोभमानाश्च मुकुटैर्नानारत्नविभूषितैः । सदृशावश्विनौ कार्यों लोकस्य शुभदायकौ ॥ ५५ ॥ शुक्लमाल्याम्बरधरौ जाम्बूनदविभूषितौ । (त्रिपञ्चदशपूतिरस्येदं भृगवन्मेचकप्रभाम् ॥ ५६ ॥ वैर्यशकंसङ्काशा) हरितश्मश्रवोऽपि च । रोहिता विकृता रक्तलोचना बहुरूपिणः ॥ ५७ ॥ नागैः शिरोरुहाली विरागाभरणाम्बराः । कार्याः पिशाचा भूताश्च परुषासत्यवादिनः ॥ ५८ ॥ (बहुपकारमन्दहाः) विरूपा विकृताननाः । घोररूपा विधातव्या ह्रस्वा नानासु)धाश्च ते ॥ ५९ ।। सुभीमविक्रमा भीमा(ः) सङ्घा यज्ञोपवीतिनः । वर्मभिः शाटिकाचित्रैर्भूताः कार्याः सदा बुधैः ।। ६० ।। येऽपि नोक्ता विधातव्यास्तेऽपि कार्यानुरूपतः । यस्य यस्य च यल्लिङ्गमसुरस्य सुरस्य च ।। ६१ ।। यक्षराक्षसयोर्वापि ना(नाग)गन्धर्वयोरपि । तेन लिङ्गेन कार्यः स यथा सा(शु?धु) विजान(जाता) ।। ६२ ।। प्रायेण (वा?) वीर्यवन्तो हि दानवाः क्रूरकर्मिणः । किरीटिनश्च कर्तव्या विविधायुधपाणयः ॥ ६३ ।। तेभ्योऽपीषत् कनीयांसो दैत्याः कार्या गुणैरपि । दैत्येभ्यः परिहीणास्तु यक्षाः कार्या मदोत्कटाः ॥ ६४॥
"Aho Shrut.Gyanam"