________________
२७१
समराङ्गणसूत्रधारे विष्णुर्यसङ्काशः पीतवासाः श्रिया(कृ)तः । वराहो वामनश्च स्यानरसिंहो भयानकः ।। ३९ ॥ कार्यो (वा?) दाशरथी रामो जामदग्न्यश्च वीर्यवान् । द्विभुजोऽष्टभुजो वापि चतुवाहुररिन्दमः ॥ ४० ।। शङ्खचक्रगदापाणिरोजस्वी कान्तिसंयुतः । नानारूपस्तु कतेव्यो ज्ञात्वा कार्यान्तरं विभुः ॥ ४१ ॥ इत्येष विष्णुः कथितः (सुरास्वरनमस्वरनमस्त्वतः) । त्रिदशेशः सहस्रा(क्षौ क्षो) वज्रभृत् सुभुजो बली ।। ४२ ॥ किरीटी सगदः श्रीमाञ् श्वेताम्बरधरस्तथा । श्रोणिसूत्रेण म(हा?हता) दिव्याभरणभूषितः ॥ ४३ ।। कार्यो राजश्रिया युक्तः पुरोहितसहायवान् । ववस्वतस्तु विज्ञेयः (कालेः केसं.)परायणः ॥ ४४॥ तेजसा सूर्यसङ्काशो जाम्बूनदविभूषितः। सम्पूर्णचन्द्रवदनः पीतवासा(स्तु:शुभेक्षणः ॥ ४५ ॥ विचित्रमुकुटः कार्यो वराङ्गदविभूषितः । तेजसा सूयेसङ्काशः कतेव्यो बलवाञ्छुभः ॥ ४६ ।। धन्वन्तरिभरद्वाजः (प्रजानीयतयस्तथा । दक्षाथोंः सदृशाः कायो कार्यो रूपाणि+रपिः) ॥४७॥ अर्चिष्मान् (क्षज्व)लनः कार्यः (यत्कण्ठाश्व?)समीरणः । सौम्यः कार्यस्तथा(विस्या?) + + रुद्रशरीरिणः ॥ ४८ ॥ रक्तवस्त्रधराः कृष्णा नानाभरणभूषिताः। कर्तव्या राक्षसाः सर्वे बहुप्रहरणान्विताः॥४९॥ पूर्णचन्द्रमुखा शुभ्रा बिम्बोष्ठी चारुहासिनी । धेतवस्त्रधरा कान्ता दिव्यालङ्कारभूषिता ॥ ५० ॥ .. कटिदेशनिविष्टेन वामहस्तेन शोभना । सपझेन (वान्तेनः) दक्षिणेन शुचिस्मिता ॥ ५१ ॥ १, 'सुरासुरनमस्कृतः' इति स्यात् ।
"Aho Shrut Gyanam"