________________
देवादिरूपपहरणसंयोगलक्षणं नाम सप्तसप्ततितमोऽध्यायः। २७३ शक्तिः शरस्तथा खङ्गो मुसृण्ठी मुद्गरोऽपि च । हस्तेषु दक्षिणेष्वेतान्यायुधान्यस्य दर्शयेत् ॥ २७॥ एकः प्रसारितनान्यः षष्ठो हस्तः प्रकीर्तितः । (चतुः) पताका घण्टा च खेटः कुक्कुट(क)स्तथा ॥ २८ ॥ वामहस्तेषु षष्ठस्तु तत्र (शोजर्जन?) करः। पवमायुधसम्पन्नः संग्रामस्थो विधीयते ॥ २९ ॥ (अन्यया) तु विधातव्यः क्रीडालीलान्वितश्च सः । छागकुक्कुटसंयुक्तः शिखियुक्तो मनोरमः ॥ ३० ॥ नगरेषु सदा कार्यः स्कन्दः परजयैषिभिः । खेटके तु विधातव्यः षण्मुखो ज्वलनमः ॥ ३१ ॥ तथा तीक्ष्णायुधोपेतः स्रग्दामभिरलकृतः । ग्रामेऽपि द्विभुजः कार्यः कान्तिद्युतिसमन्वितः ॥ ३२ ।। (दक्षिणा च भवेद् भक्तिर्नाम हस्ते तु कुक्कुट!) । विचित्रपक्षः (ससु)महान् कर्तव्योऽतिमनोहरः ॥ ३३ ॥ एवं पुरे खेटके च ग्रामे (वाभिलं?) शुभम् । कार्तिकेयं ++ कुर्यादाचार्यः शास्त्रकोविदः ॥ ३४ ॥ अविरुदेषु कार्येषु खेटे (यात्रा)मे पुरोत्तमे । कार्तिकेयस्य संस्थानमेतद् यत्नेन कारयेत् ॥ ३५ ॥ (बालस्तु सुभुजः श्रीमान् स्थले केतु महाद्युतिः) । वनमालाकुलोरस्को निशाकरसमप्रभः ।। ३६ ॥ गृहीत(सारोसी)मुसलः कार्यो दिव्यमदोत्कटः । चतुर्भुजः सौम्यवक्रो नीलाम्बरसमावृतः ॥ ३७॥ (कु:मु)कुटालङ्कृतशिरोरोहो रागविभूषितः । रेवतीसहितः कार्यो (वनबल)देवः मतापवान् ॥ ३८॥
1. 'धनुः' इति, २. 'संवर्धनः' इति, ३. 'अन्यदा' इति, ४. 'दक्षिणे च भवेभक्तिर्वामे हस्ते तु कुकूटः इति, ५. 'बलस्तु सुभुजा श्रीमांस्तालकेद्रमहाद्युतिः' इति
"Aho Shrut Gyanam"