________________
२७२
समराङ्गणसूत्रधारे
शतबाहुः कदाचिद्वा सहस्रभुज एव च । रौद्ररूपो गणवृतः सिंहचर्मोत्तरीयकः || १५ || तीक्ष्णदंष्ट्राग्रदशनः शिरोमालाविभूषितः । चन्द्राङ्कितशिराः श्रीमान् पीनोरस्कोग्रदर्शनः ।। १६ ।। (भद्रमू) कर्तव्यः श्मशानस्थो महेश्वरः । द्विभुजो राजधान्यां तु पत्तने स्याच्चतुर्भुजः ॥ १७ ॥ कर्तव्यो विंशतिभुजः श्मशानारण्यमध्यमः । एकोऽपि भगवान भद्र (:) स्थानभेदविकल्पितः ॥ १८ ॥ रौद्रसौम्यस्वभावश्च क्रियमाणो भवेद्बुधैः । (उद्याद्यथा भावद्भागभगवान् ) सौम्यदर्शनः ॥ १९ ॥ स एव तीक्ष्णतामेति मध्यन्दिनगतः पुनः । तथारण्यस्थितो नित्यं रौद्रो भवति शङ्करः || २० || ( स येद सौम्यावति स्थाने सौम्यो व्यवस्थितः) | स्थानान्येतानि सर्वाणि ज्ञात्वा किम्पुरुषादिभिः ॥ २१ ॥ प्रमथैः सहितः कार्यः शङ्करो लोकशङ्करः । एतद् यथावत् कथितं संस्थानं त्रिपुरद्रुहः || २२ ॥ कार्त्तिकेयस्य संस्थानमिदानीमभिधीयते । तरुणार्कनिभो रक्तवासाः पावकसप्रभः ॥ २३ ॥ ईषद्वालाकृतिः कान्तो मङ्गल्यः प्रियदर्शनः । प्रसन्नवदनः श्रीमानोजस्तेजोन्वितः शुभः ॥ २४ ॥ (विशेषान्मुटुकै चित्रि) मुक्तामणि(विभूषितः । gar area वा शक्ति रोचिष्मतीं दधत् ॥ २५ ॥ नगरे द्वादशभुजः खेटके षड्भुजो भवेत् ।
ग्रामे भुजद्वयोपेतः कर्तव्यः शुभमिच्छता ॥ २६ ॥
१. 'भद्रमूर्तिस्तु' इति स्यात् २ 'उद्यन् यथा भवेद् भानुर्भगवान्' इति स्यात् । ३. 'स एव सौम्यो भवति स्थाने सौम्ये व्यवस्थितः' इति स्यात् । मित्रैः' इति स्यात् ।
४. 'विशेषान्मुकुटै
"Aho Shrut Gyanam"