________________
२३४
समराङ्गणसूत्रधारे
(दत्तंशस्य सालिख्यात् तया दृभिः पदैः !) | सूत्राणि पातयेत् तस्य ततो दिक्षु विदिक्षु च ॥ १५० ॥ प्रासादभ्रमणस्यान्ते द्विपदायाम (व विस्तृती (न्) | कुवताष्टसु सम्पातेष्वष्टौ कन्दान् समन्ततः ॥ १५१ ॥ (विधाय तां चतुर्भक्तां कुर्याद् ज्रामांस्तथा) | अन्तरेण च कन्दानां कर्तव्यं कर्णिकाष्टकम् ।। १५२ ।। देशात् सार्धं यदा सूत्रे (?) यथा सम्पत्स्यते मिथः । पार्श्वद्वयात् कर्णिकानां संस्थानं स्यात् तथाविधम् ।। १५३ ॥ भक्त्वैवं सर्वभद्राणि त्रिपदोऽन्तः सुरालयः । पार्श्वभ्रम व्यर्धपादो (?) दशधा भाजिते भवेत् ॥ १५४ ॥ कन्दा द्विपदाः कार्या बहिर्दिक्षु विदिक्षु च । अन्योन्याभिमुखास्तेषु शालाः कार्या यथोदिताः ॥ १५५ ॥ ( शक्तियस्ता समीक्षते ? ) विष्णोरप्रतिमौजसः । कार्येयं तस्य (तान्येयु::) (ऍण्डरीकविनामतः १) ।। १५६ ।। एतस्याः कर्णिकास्थाने यदा वृत्तं प्रकल्प्यते । तदानीमापत्रं स्यात् कर्तव्या ब्रह्मणश्च सा ।। १५७ ॥
कृत्वा वृत्तायतं क्षेत्रं विभजेद् दशभिः पदैः । तस्य मध्ये विधातव्यं देवागारं पदैखिभिः ॥ १५८ ॥ तस्य पार्श्वेषु कर्तव्यो भ्रमः सार्ध (द्वि) भागिकः । द्विभागं बाह्यवृत्तं स्यात् तत्र कुर्यादिमां क्रियाम् ॥ १५९ ॥ भागैर्द्वादशभिस्तच तुल्यमानैर्विभाजयेत् । एकैकं च पुनर्भागं चतुर्धा तेषु भाजयेत् ।। १६० ।
द्विभागायामविस्तारा शाला मध्ये विधीयते । भागिकश्चतुरश्र दिछा ( ( ) ला (नृः त्रि) तये भ्रमः ॥ १६९ ॥ 'वामदक्षिणतः शाले (ताँ) ये भवतः शुभे ।
ते वृत्ते संविधातव्ये संमुखे च परस्परम् || १६२ ॥
१. ' विधाय तांश्चतुर्भकान् कुर्याद् दिक्षु भ्रमांस्तथा' इति स्यात् । नामतः' इति स्यात् । ३. 'तास' इति स्यात् ।
"Aho Shrut Gyanam"
२. 'केति