________________
जगतीलक्षणं नामैकोनसप्ततितमोऽध्यायः । २३५ (शाला तु खुमागस्याच्छालार्धभागाविस्मृतः) । कल्प्यस्तेनैव मानेन (सञ्चावा?) भ्रमणं भवेत् ।। १६३ ॥ जगत्येषा समाख्याता चक्रवालेति नामतः ।। दिवाकराय कर्तव्या सग्रहायाथवेन्दवे ॥ १६४ ॥ (समक्षवायभद्रायामात्रिषुक्तायं वा पुनः) । चतुरश्रीकृते क्षेत्रे दशभागविभाजिते ।। १६५ ॥ गर्भात् कोणगसूत्रेण सर्वतो वृत्तमालिखेत् । बहित्रिपदविस्तारं कन्दं कुर्याच्चतुष्पदम् ॥ १६६ ॥ शा(लाया'लां) च द्विपदायामां विस्तारात सार्धभागिकाम । शेषं तु भद्रशालायाः समन्ताद् भ्रमणं भवेत् ॥ १६७ ।। भद्रस्योभयतो वृत्ते द्विभागायतविस्तृते | शाले च वृत्तयोरन्तर्भागिकायामविस्तृती ॥ ॥ १६८ ॥ याम्यसौम्यापरास्वेवं दिक्षु भद्रत्रयं भवेत् । साधेमायामविस्तारा(स्तत्तदर्धभ्रमणान्विताः ॥ १६९ ।। शाला विदिक्षु कर्तव्याः शोभनाश्चतसृष्वपि । भद्रमध्ये स्थितां शालां हित्वा प्राच्या(तु सा) भवेत् ॥ १७० ॥ सार्धमायामविस्तारा(स्तीत्तदर्धभ्रमणान्विता । सनक्षत्राय सोमाय कर्तव्या पुष्टिहेतवे ॥ १७१ ।। चतुरश्रीकृते क्षेत्रे दशभांगविभाजिते । पञ्चभागायतां मध्ये शालां वृत्तां प्रकल्पयेत् ।। १७२ ॥ सार्धभागद्वय(स्तः)मिता देवागारस्य बाह्यतः । (अमण संविद्यातव्यः) कर्णशालाश्च कर्णगाः ॥ १७३ ॥ कर्णमानं बहिर्वृत्तं भ्रमयित्वा(सारन्दसमन्ततः । भद्रोपभद्रकर्णेषु वृत्ताः शालाः प्रकल्पयेत् ॥ १७४ ॥ पदद्वयसमायामा(:) पदत्रितयविस्तृताः) । भागि(कारक)भ्रमणोपेता(:) शालाः कुर्वीत भद्रजाः ॥ १७५ ॥ १. 'भ्रमणाः संविधातव्याः' इति स्यात् ।
"Aho Shrut Gyanam"