________________
जगतीलक्षणं नामैकोनसप्ततितमोऽध्यायः । २३३ भ्रमयेज्जगतीवृत्तं (समगां?) भागिकं ततः । पूर्वोक्तविधिना कार्य पार्श्वतो मत्तवारणम् ॥ १३७ ॥ गोपुरद्वारशोभाढ्या जगती वलया भवेत् । वलयापृष्ठतः कन्दं मूलशालासमायतम् ॥ १३८ ।। पूर्वोक्तविधिना भक्तां शालां कुर्यात् तदर्धतः। कलशेयं समाख्याता जगती कलशाकृतिः ॥ १३९ ।। कर्णस्थं द्विपदायामं कर्णशालाचतुष्टयम् । चतुरश्रं भवेद् यत्र (शानार्थे +१)भिधीयते ॥ १४ ॥ सप्तभागायते क्षेत्रे चतुरश्रे समन्ततः । भागांस्त्रीन् वर्जयेदने चतुरः(पृव्यन्तरश्चतान्?) ॥ १४१ ॥ सार्धास्त्रीन पार्श्वयोर्भागांस्त्यक्त्वा (गर्भततोकयेत् !) । द्विभागायामविस्तारं वृत्तं स्याद् देवमन्दिरम् ।। १४२ ।। भागमेकं भ्रमस्तस्य विधातव्यः समन्ततः ।। भ्रमण्याः पृष्ठतः कन्दो भागायामविभूषितः ॥ १४३ ॥ तस्यान भवेच्छाला तदर्धन परिक्रमः । गर्भाद् भागद्वयस्यान्त ईशानानलयोर्दिशोः ॥१४४ ॥ द्विभागौ भवतः कन्दावर्धभागप्रवेशितौ । पृष्ठशालोर्ध्वगे तिर्यसूत्रे(ण?) दत्ते भ्रमान्तिके ॥ १४५ ॥ कर्णिकाद्वितयं कार्य राक्षसानिलयोर्दिशोः। (व्यय?)शालां च कुर्वीत पृष्ठशालासमां ततः ॥ १४६ ॥ प्राक (च.) पश्चात् कन्दगर्भ(स्थास्थासूत्रद्वितययोगतः। कुर्वीत कर्णि(काका) तीक्ष्णाक्षणां)पाश्वयोरुभयोरपि॥ १४७ ।। (शेषा भी) पूर्ववत् सर्वा शुण्डिकादिक्रिया भवेत् । (यदागभी?) करवीरेयमीशादित्रिदशमिया ॥ १४८ ॥ एतस्या एव पृष्ठस्था यदा सन्त्य(पीष्ट) कर्णि(को?काः) । वामशाले विधीयते नलिनीति तदा भवेत् ॥ १४५ ॥
१. 'सा कर्णेत्य' इति स्यात् । २. 'पृष्ठतश्च तान्' इति स्यात् । ३. 'गर्भ ततोऽप्रत्येत्' इति स्यात् ।
"Aho Shrut Gyanam"