________________
समराङ्गणसूत्रधारे चित्रकूटा क्रमान- द्विभजनं पूर्विविकूटवद् विचक्षणः । त्रिकूटायामतो रूपे सिद्धिद्वयायामविस्तृतम्?) ॥ १२४ ॥ कर्णे कर्णे कृतं कन्दं चतुर्धा प्रविभाजयेत् ।। भागद्वयेन शाला स्याद् भागेन भ्रमणं तथा ॥ १२५ ॥ (मूलतार्धविस्तारं भवतच्छेह मानतः । याम्योत्तरे चतुर्भागविस्तार भागं निर्गताम् ॥ १२६ ॥ +++++++ भद्रं भागिकद्वयान्वितम् )। शेषं तु भ्रमणं तत्र मध्यपार्थेषु कारयेत् ॥ १२७ ॥ एवमग्रेऽपि शाले द्वे द्वारस्योभयपार्श्वयोः । कर्तव्ये भागनिष्क्रान्ते भागिकायामविस्तृती ॥ १२८ ॥ पृष्ठभद्रं च कर्तव्यं सा(शद्वयविस्तृतम् । द्विभागनिर्गमं युक्तं शालया सार्धभागया ॥ १२९ ॥ याम्योत्तरेण चास्यैव कार्य शालाद्वयं ततः । (प्रमाणे पसन्नकार्ये भागे प्रवेशनम् !)॥ १३०॥ शेषो भ्रमः स्याच्छालानां सप्तानां मध्यगस्ततः। स्याच्छैवी (श्रयणी) त्वेषा सर्वामरगणप्रिया ।। १३१ ॥ अस्या एव मुखे शाला यदा संजायते तदा । त्रिविक्रमेति विख्याता जगती जायते शुभा ॥ १३२ ॥ यदा सार्धविनिष्क्रान्ते सार्धाशद्वयविस्तृते । पार्श्वभद्रद्वये शाले भवेतां भागविस्तृते ॥ १३३ ॥ ++++++सार्धभागि(कंक)भ्रमणान्विते । (लिप्यते चापि मा शाला?) क्रमायाता तदा भवेत् ॥ १३४ ।। शालायाः शुण्डिकाग्रे तु त्रिपथा सैव जायते । (चतुर्यातो प्रोक्ताः) कथ्यन्ते वृत्तजातयः ॥ १३५ ॥ चतुरश्रीकृते क्षेत्रे चतुर्भागविभाजिते । मध्ये देवगृहं वृत्तं सा(शायामविस्तृति ॥ १३६ ॥ 1. 'चतुरश्रायताः प्रोकाः' इति स्यात् ।
"Aho Shrut Gyanam"