________________
जगतीलक्षणं नामैकोनसप्ततितमोऽध्यायः ।
संस्तुता किन्नरैः सिद्धैस्तदा स्याद् भ्रमरावलिः | वक्त्रशालाविहीना तु पार्श्वशालाद्वयान्विता ॥ ३५ ॥ तद्रूपा तत्प्रमाणा या स्वस्तिकी सा प्रकीर्तिता । मासादाभिमुखी शाला स्वस्तिक्यामेव चेद् भवेत् ॥ ३६ ॥ तदानीं हंसमालति विख्याता जगती भुवि । मुख्य ख) स्य पार्श्वद्वितये भागं वार्यन्तरं यदा ॥ ३७ ॥
कृत्वा (मासादयद्भुग्रेः) भद्रमानेन निर्गमम् । प्रासादसंमितं सूत्रं शालास्तु गलभूषिताः || ३८ ॥
शुण्डिका तदवस्थे च मुखे स्याच्छालया विना । कुलशैला तदा ज्ञेया हंसमालागमाश्रया । ३९ ॥ सदा महेश्वरस्येष्टा स्कन्दस्य तु विशेषतः । अस्या एव यदा शाला पुरोभद्रे विधीयते ॥ ४० ॥ तदा महीधरा प्रोक्ता महीधरमनः प्रिया | चतुरश्रीकृते क्षेत्रे साष्टाविंशतिभाजिते ॥ ४१ ॥ चतुःषष्टिपदं मध्ये कुर्याद् देवालयं बुधः । चतुष्पदो भ्रमः कार्यो देवागारस्य सर्वतः ॥ ४२ ॥
भ्रमसूत्रस्य कर्णस्था द्विपदायतविस्तृताः । शाला (तुस्तस्रः) कर्तव्या भागिक भ्रमवेष्टिताः ॥ ४३ ॥
तासां पार्श्वेषु सन्त्यज्य भ्रमाद् मागचतुष्टयम् । (शाली कं + ) प्रकुर्वीत + भागायतविस्तृतम् ॥ ४४ ॥ एकभागिकविस्तारः कर्णः (स्यात्) पार्श्वशालयोः । मध्ये भागे जलाध्वा स्याद् विहाय त्रिदशं बहिः ॥ ४५ ॥ द्विभागविस्तृतां तां च कुर्याद् भागत्रयायाम् (?) | अन्तरेण जलाध्वा स्याद् भद्रपार्श्वज (ला?शा) लयोः ॥ ४६ ॥
२२५
१. 'हरमाले 'ति लक्ष्ये पठ्यते । २. 'कुलशीले 'ति पूर्व पठिता । ३. 'शालाकन्दम्' इति स्यात् ।
"Aho Shrut Gyanam"