________________
समराङ्गणसूत्रधारे मध्ये देवालयः कार्यश्चतुर्वर्गपदान्वितः । बहिर्द्विपदविस्तारो भ्रमस्तस्य समन्ततः ॥ २२ ॥ कर्णे कर्णे च कर्तव्या द्विपदायामविस्तृता । चतुर्दिशं कर्णशाला या (पदिभ्रमणान्विता ।। २३ ।। पदद्वितयविस्तारा त्रिपदायामसंयुता। पदिका च भ्रमणा(१) कार्या भद्रशालाश्च सुन्दराः ।। २४ ।। वार्यन्तराणि परितः कुर्यान्मध्येषु शालयोः । पदमेकं प्रविष्टानि तदर्धे विस्तृतानि च ।। २५ ॥ शालायाः पृष्ठभद्रे स्यादेकभद्रद्विभद्रिका(?)।। (कपोकृताभ्यां त्रिभद्राणि पृष्ठकुक्षिषुः) ॥ २६ ॥ शालाभि(स्याचा)थ तिसृभिर्जगती भद्रमालिनी ।
एकमद्रादिचतुष्टयम् ॥ चतुरश्रीकृते क्षेत्रे चतुर्विंशतिभाजिते ।। २७ ।। षवर्गलक्षणोपेतो मध्ये कार्यः सुरालयः । देवालय(स्य)परितत्रिपदः स्यात् परिभ्रमः ॥ २८ ॥ ततः शालाविभक्तिश्च कर्तव्या प्रोक्तलक्षणा । पञ्चभागायता मध्ये(भूचतुविस्तृता?) पदैः ॥ २९ ॥ भद्रशालाश्च कर्तव्यास्तन्मध्ये भागिकभ्रमः । भद्रस्य पार्थद्वितये द्वि(तःप)दायामविस्तृतम् ॥ ३० ॥ शालाद्वयं विधातव्यं द्वादशी शत + भ्रमम्(?) । भागमेकं प्रवेशस्तु तयोः (कर्ण)द्वयोर्भवेत् ॥ ३१ ।। तिस्रस्तिस्रो भवन्त्येवं शालादि (क्रा) ति(स)ष्वपि । षडेवोदकमार्गाश्च कार्या भागाधनिस्मृताः ॥३२॥ भागमेकं प्रविष्टाश्च भवेयुर्दिकत्रयेऽपि ते । कर्णौ च पुस्तः कायौँ भागद्वितयसम्मितौ ॥ ३३ ॥ ससुण्डिका(?) विमानोऽयं सुरासुरनरार्चि(तातः) । सुण्डिकाग्रे यदेतस्यां शालाप्रासादसंमुखम् ॥ ३४ ॥
"Aho Shrut Gyanam"