________________
जगतीलक्षणं नामैकोनसप्ततितमोऽध्यायः । अथातः कथ्यते तासां प्रविभागो यथायथा। जगतीनां क्रमेणैव शालानां च यथोदितः ॥ ९ ॥ चतुरश्रीकृते क्षेत्रे (षडेते स?)विभाजिते । समं वाचार्धयुक्ते वा गुणेऽथ मुखायताम्(?) |॥ १० ॥ मण्डपेनोज्झिते कुर्याज्जगतीमनुसारतः । द्वौ भागौ मध्यदेशे स्यात् प्रासादो भागिको भ्रमः ॥ ११ ॥ (कर्णादृशां समुज्य?) पार्श्वयोरुभयोः पुरः। श्रीखण्डिका विधातव्याः प्रासादमं ++ मिमाम् (१) ॥ १२ ॥ मत्तवारणसंयुक्ता प्रतोल्यादिविभूषिता। प्रथ(मेमा) च समाख्याता जगती वसुधाभिधा ।। १३ ॥ वसुधा वसुधारा स्यात् समायुक्ताग्रशालया। निर्गमः पुरतः कार्य प्रासादस्य प्रमाणतः ॥ १४ ॥ +विस्तारस्तथा कार्यस्तं चतुर्धा विभाजयेत् । भागिका श्रमणी कार्या शेषशाला द्विभागिका ॥ १५ ॥ सुण्डिका चापि पूर्वोक्तमानेनैवायता भवेत् । वसुधा च पुनः कर्णशालाभ्यां राजसिंहिका ॥ १६ ॥ भासादार्धेन ते कायर्ये) कर्णयोरुभयोरपि । स्वमानार्धेन च तयोभ्रंमणी परिकल्पयेत् ॥ १७ ॥ मूलप्रासादविस्तारा कर्तव्या सुण्डिका पुरा । शाला स्याद् वसुधा राजहंसाः(१) पुरो यदा ॥ १८ ॥ श्रीधरी सा तदा तस्याः (सुरोयधन्दः) पूर्ववत् । यदा तु हंसिकास्थाने शाले स्तोऽपरकर्णयोः ॥ १९ ॥ तद्रूपे तत्प्रमाणे च तदा सा भद्रिका भवेत् । चतुरश्रीकृते क्षेत्रे षोडशांशविभाजिते ।। २० ॥ पूर्वोक्तक्रमसम्पन्ने यथाकामं मुखायते । मण्डपायामसंयोगाद् यथाभागं विभाजिते ॥ २१॥
"Aho Shrut Gyanam"