________________
२२२
समराङ्गणसूत्रधारे तोरणं त्रिविधं ज्ञेयं कनीयोमध्यमोत्तमम् ।
इत्थं जगत्यायतनस्य सम्यक प्रासादपीठस्यच सम्प्रदिष्टम् ।
विधानमेतज्जगतीषु (नातमन्यथाभिदधाः सह लक्षणानाम्?) ॥ ५५ ॥ इति श्रीमहाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारनाम्नि वास्तुशास्त्रे
जगत्यनसमुदायाधिकारो नामाष्टषष्टितमोऽध्यायः ।
अथ जगतीलक्षणं नामैकोनसप्ततितमोऽध्यायः ।
--------20:---- वसुधा वसुधारा (च) वहन्ती च तथाप(रेरा)। श्रीधरा भद्रिका चैव एकभद्रा द्विभद्रिका ॥१॥ त्रिभद्रिका भद्रमाला वैमानी भ्रमरावली । स्वस्तिका हरमाला च कुलशीला महीधरी ।। २ ॥ मन्दारमालिकानङ्गलेखाथोत्सवमालिका । नागारामा मारभव्या तथाच मकरध्वजा ॥ ३ ॥ नन्द्यावतो(नं.) च भूपाला पारिजातकमञ्जरी । चूडामणिप्रभा चैव तथा श्रवणमञ्जरी ॥ ४ ॥ विश्वरूपादिकमला तथा त्रैलोक्यसुन्दरी । गन्धर्वबालिका चान्या विद्याधरकुमारिका ॥ ५ ॥ सुभद्रा च समाख्याता तथान्या सिंहपजरा । (वज्जपकुरवायाः!) गन्धर्वनगरी तथा ॥ ६ ॥ तथामरावती ज्ञेया रत्नधमा च नामतः । त्रिदशेन्द्रसभा चैव तथान्या देवयन्त्रिका ।। ७॥ चत्वारिंश(द्विदितीयं स्यादेकोना नामसंख्यया । (यमलाम्बरधरा नेत्रा दद्युडाः खण्डिला सिता) ॥ ८॥ १. 'यमलाम्बुधरा नेत्रा दोर्दण्डा खण्डला सिता' इति स्यात् ।
"Aho Shrut Gyanam