________________
Ol.
समराङ्गणसूत्रधारे स च भागार्धमायामा(त्) प्रविष्टस्तावदेव च । कृत्वा तिसृषु दिक्ष्वेवं सुण्डिकाकन्दमध्यतः ॥ ४७ ।। प्रासादासमायामो सम्यक् तुण्डौ निवेशयेत् । तमोरपिच शाले द्वे भ्रमक्रमविभूषिते ॥ ४८ ॥ कार्ये मन्दार(शामा)ला स्यादेवं हरमनःप्रिया । सुण्डिकायर्या यदा तस्याः शाला सम्पद्यते तदा ॥ ४९ ॥ अनालेखा भवति जगती पार्वतीप्रिया । यत्रास्मिन्नेव विन्यासे मुखशाले विना कृते ॥ ५० ॥ शुण्डिकागण्ड + + न्यौ शाला सोपानमालिका । मुखशालान्विता सैव यदा नागोगना तदा ॥ ५१ ॥ चतुरश्रीकृते क्षेत्रे द्वात्रिंशद्भाग(वि)भाजिते । चतुःषष्टिपदं मध्ये कतव्यं सुरमन्दिरम् ॥ ५२ ।। कार्यस्तस्य भ्रमः सम्यक् समन्ताच्च चतुष्पदः । भ्रम(न्तिान्ती) द्विपदायामे शाले (तु) भ्रमसंयु(तोते) ॥ ५३॥ स्वप्रमाणाद विधातव्ये मध्यगे भद्रकर्णयोः। स्युः षोडशप(द्रः दाः) कन्दास्तेषु शालाश्चतुष्पदाः ।। ५४ ॥ चतुर्वपिच कर्णेषु प्रविष्टा भ्रमजाः पदम् । कर्तव्यं द्विपदायामं भद्रशालायुगं तथा ।। ५५ ।। विस्तारात् प्र + पादोनमन्योन्याभिमुखं भवेत् । आयता(द) द्वयंशविस्तारा पदेनैकेन वेष्टिता ॥ ५६ ॥ भद्रशाला विधातव्या सार्धत्रिपदनिर्गमा । सौम्यानिलीवारुणीषु नैऋतीया(भ्ययो)रपि ॥ ५७ ॥ शाल्पस्तितः प्रतिदिश(मशालाग्नेय्यायदिना मुरविद्विषः)। अस्या एव मुखे शाला यदि तन्मकरध्वजा ।। ५८ ॥ अमराणां कृतानन्दा कृत्वनां मोक्षमाप्नुयात् । मुखशाला परित्यज्य यदैकैकाग्रकर्णयोः ॥ ५९ ॥ 1. 'उत्सवमालिके'ति निर्देश दृश्यते । २. नागरामेति पूर्वत्र पठिता।
"Aho Shrut Gyanam"