________________
जगत्यङ्गसमुदायाधिकारो नामाष्टषष्टितमोऽध्यायः । २१९ (श्री आ द्वादशकरादूर्ध्वमो;:) विंशतिहस्ततः । शालात्रिभागं तुर्यांशः स्याद्वा द्वात्रिंशतः पुनः(१) ।। १६ ॥ आसनार्धात्तु पञ्चाशच्छाला(?) ग्रासादतो भवेत् । बहुदेवकुला या तु प्रासादस्यानुसारतः ।। १७ ।। अमः प्रकारा शालानां यथायोगमिहाधना । कर्णोद्भवा भ्रमो(च्छा त्था) च भद्रजा गर्भसम्भवा ।। १८ ॥ मध्यजा पार्श्वजा चेति भेदास्तासां भवन्ति षट् । (विस्तारायामतोस्यभिः कर्णजा पूर्वमारिणा?) ॥ १९॥ भ्रमजा तत्प्रमाणेन ++पादेन वेष्टिता । भद्रजा कणेजातीया साधाया(भ्य?मा) प्रकीर्तिता ।। २० ॥ गर्भजा मध्यजा चेति कर्णजाय(सात)सम्मिते । पार्श्वजा भ्रमजाया(सामा) स्थानं तासामथोच्यते ।। २१ ॥ कर्णेषु कर्णजा ख्याता भ्रमजा च परिभ्रमे ।। भद्रेषु भद्रजा ज्ञेया त्रयमध्ये च गर्भजा ।। २२ ।। मध्ये व्यवस्थिता या तु पञ्चानां मध्यजा तु सा । (पाश्वसंस्थानश्चतस्रो यास्तासां शान्ताः) पार्श्वद्वये स्मृताः॥२३॥ पार्श्वद्वयं स्युः कर्णानां +स्ता अपिच पार्श्वजाः) । प्रासादविस्तृतेरधैं विधातव्या भ्रमन्तिका ॥ २४ ।। (पदद्धतिवाह्यस्याः कन्दा दिक्षु +++ च । सुरसमानुसारेण कुर्यादष्टौ विचक्षणः ।। २५ ॥ (आरभ्य भद्रमालत्या यावत त्रिंशमत्रिकाम?) नवाण्डकाया यावत् स्यादेकत्रिंशत्तमे क्रमात् ॥ २६ ॥ शालाकन्दाः स्मृतास्तासां चतुर्वर्गविभाजिताः । चतुष्पदा तत्र सास्या(?) स्याद् द्वादशपदो भ्रमः ॥ २७ ॥ क्रमेणानेन कर्तव्यं शालाकन्दनिवेश(तः'नम्) । तवं तु भ्रमो नास्ति शालागणविभाजने ॥ २८ ॥
"Aho Shrut Gyanam"