________________
समराङ्गणसूत्रधारे (रु?भद्राद् भ्रमोऽयं न पुनः कर्णनिर्गमधारिणाम् । रुचकस्येव कर्तव्यः कर्णदेशात् परिक्रमः ।। २१ ।। शालानुसारतो भद्रे विस्तारैः कन्दका बहिः । कतेव्यो निगेमस्तन बुधैः पदचतुष्टयम् ॥ ३० ॥ उदकान्तरविस्तारो भागेनार्धन वा कचित् । प्रजाङ्गस्य विधातव्यं क्षोभणं च पदद्वयम् ।। ३१ ।। प्रासादस्य च विस्तारं दत्त्वाग्रे सलिलान्तरम् । गण्डौ तत्सूत्रगौ कार्यो भ्रमाद् द्विपदनिर्गतौ ।। ३२ ।। पासादानां तु विस्तृत्या स्युरेकद्वित्रिनिघ्नया(?) । कर्णाद् विनिस्सृतौ गण्डौ ज्येष्ठमध्यकनीयसा(म् ) ।। ३३ ।। (भवग्रे सुण्डिकाः?) कार्याः कर्णशालाविनिर्ग(मःताः) । मालासोपानसंयुक्ताः प्रतीहारसमाकुलाः ॥ ३४ ॥ प्रतोली चाग्रतः कार्या सपटो + गला दृढा । ब्रूमोऽथ जगतीपीठं तत् कुयोदेकहस्तके ।। ३५ ।। प्रासादे विस्तृतेस्तुल्यसमुत्सेधे विचक्षणः । द्विहस्तके तु पादोनं व्यंशहीनं त्रिहस्तकम् ।। ३६ ।। चतुर्हस्ते (तु) कर्तव्ये साधहस्तद्वयोचितम् । चतुरिष्टा त्रया च + + + द्वादशहस्तकम् (?) !! ३७ ।। कनीयोमध्यमज्येष्ठानुदयान् कल्पयेत् क्रमात् । अर्धे वा कर्णशालायाः पादोनं वाथ तत्समम् ।। ३८ । अनेन (च) प्रकारेण ज्येष्ठमध्यमयोगी । प्रासादयोर्जगत्युचा कर्णप्रासादमानतः ।। ३९ ।। पीठस्य यः समुत्सेधा +++ तं विभाजयेत् । भागेन खुरकं कुर्याद् भागेनैकेन वर्मना(?) ।। ४० ।। कुम्भस्य खुर(काक)भागं द्विभागं कुम्भकं तथा । कलशं भागिकोत्सेधं तथैवान्तरपत्रकम् ॥ ४१॥
"Aho Shrut Gyanam"