________________
२१८
संमराङ्गणसूत्रधारे
जगतीनामथ ब्रूमो लक्षणं विस्तरादिह । प्रासादं लिङ्गमित्याहु (स्त्रिग? ) लयनाद् यतः || ३ | ततस्तदाधारतया जगती पीठिका मता । आकारविस्तृतायामानुच्छ्रायं (ते क्रिया) || ४ ॥ विना तमङ्गप्रत्यङ्गा कल्पना नापि + क्रमम् ( 2 ) । विभक्ति तिलकन्दानां भद्रविस्तारनिर्गमम् ॥ ५ ॥ जलाधार (दो) प्रवेशं निर्गमोद्गमम् । मानसंख्यां च शालानां संस्थानोन्मानलक्षणम् ॥ ६ ॥ परिक्रमं (ते मेवासा) संज्ञां च त्रिविधामपि । पप्रकारत्वमे (वासा) सम्भवस्य च कार(णः णम्) ॥ ७ ॥ मूलशा (लोला) परिच्छित्ति परिक्रमविनिर्गमम् । सञ्चयद्वार सोपानमुण्डिकामण्डसम्भवा (न्) || ८ ॥ द्वित्र्यादिदेवताधिष्ण्याज्जगतीस्तोरणानि च (!) 1 युक्तानि लक्षणैः सर्वैर्यथावत् संप्रचक्ष्महे ॥ ९ ॥ चतुरश्रा समा शस्ता मनोज्ञा सर्वतः प्लवा । अंशप्रगृढदिग्भागा ग्रामादानुगता शुभा ॥ १० ॥
चतुरश्रायता यद्वा वृत्ता वृत्तायता तथा । अष्टाश्रिर्वा विधातव्या सा संशोध्यादितः क्षितिम् ॥ ११ ॥
निरूप्य त्रिदशागारं संस्थानोन्मानलक्षणैः । तदाकारवतीं पार्श्वे जगतीं तस्य योजयेत् ॥ १२ ॥ कनीयसी मध्यमा च ज्येष्ठा चेति त्रिधैव सा । कनीयः प्रभृतिष्वेताः प्रासादेषु नियोजयेत् ॥ १३ ॥ जगत्यो(भ्ररमणीभिः स्फारौकद्वित्रिस्त्रिभि: १) क्रमात् (नानाशातिशान्तिन्यकनिष्ठाद्या) मनोरमाः ॥ १४ ॥ प्रासादस्या (सुनु) रूपेण साङ्गोपाङ्गादिसंख्यया । शालास्तासां मताः कर्म प्रोच्यते सामुदायिकम् ॥ १५ ॥
१, 'प्रदेशांश्च' इति स्यात् । २. 'तमङ्गानाम्' इति स्यात् ।
" Aho Shrut Gyanam"