________________
२०७
मण्डपलक्षणं नाम षट्षष्टितमोऽध्यायः । पक्षद्वये नन्दनस्य भद्रे भित्त्याभिवेष्टयेत् । गवाक्षकैरलकुर्यान्न कुर्यादुदकान्तरम् ।। ४७ ॥ स्वस्तिकोऽयं समाख्यातः सर्वलक्षणलक्षितः ।
स्वस्तिकः ॥ अथाभिधीयते सम्यक् सर्वतोभद्रलक्षणम् ।। ४८ ॥ कर्णे कर्णे (लागले वेत्सार्धः) भागद्वयायतम् । कार्या परस्परं तेषु दारुक(म)विकल्पना ॥ ४९ ।। भागेनैकेन निर्यात भागषट्केन चायतम् । षड्दारुकद्वयं भद्रं कारयेद् (बाह्यवस्थितम्) ।। ५० ॥
सर्वतोभद्रः ।। चतुरंश्रीकृते क्षेत्रे + प्राग्भागैर्विभाजयेत् । त्यक्त्वा(तेस मध्ये?) कर्णेष्वादध्याल्लाङ्गलानि च ।। ५१ ॥ चतुर्भागान्तरस्थानि षड्दारुकयुतानि च । कर्तव्यं भागनिष्क्रान्तं दिक्षु भद्रचतुष्टयम् ।। ५२ ॥ चतुष्पदस्तदायामात् सर्वतोलिन्दको बहिः । प्रतिभद्राणि कुर्वीत चतुर्भागायतानि च ।। ५३ ॥ निर्गतानि(रभागेनः) दिक्षु स्तम्भान्वितानि च । इत्येतैर्लक्षणयुक्तो महापद्मः प्रकीर्तितः ॥ ५४॥
महापद्मः॥ चतुरश्रीकृते क्षेत्रे चतुष्कोणविभूषिते । अलिन्दावेष्टितं कुर्यात् प्राग्नीवं मुखसंश्रितम् ॥ ५५ ॥ गवाक्षकाच कर्तव्यास्तथा चन्द्रावलोकनाः। वातायनास्तथोद्योताः समन्ताद रूपशोभिताः ॥ ५६ ॥ गृहराजक्रिया ह्येवं सर्वशोमासमन्विता । एवं लक्षणसंयुक्त (मतगोमपि) मन्दिरम् ॥ ५७ ॥
गृहराजः ॥ १. 'मातृणामपि' इति स्यात् ।।
"Aho Shrut Gyanam"