________________
समराङ्गणसूत्रधारे वेदिव्यालकपोताली मत्तवारणतुलोदयः(१) । षड्वारुकं + + भद्रे तत्र कुर्वीत बुद्धिमान् ॥ ३५ ॥ बाह्यतो मण्डपेऽप्येवं मानतः कर्मतोऽपि च । कपोतालीवरण्डीभिस्तथाचान्तरपत्रकः ॥ ३६॥ कर्णप्रासादकैश्चित्रः कर्म स्याद् भद्रमण्डपे । उच्छ्रायस्य (विवेचीयादशस्त्वन्यतमो?) बुधैः ॥ ३७ ॥ शि(ख)रस्य त्रिभागेन पादोनैकेन वा भवेत् । उच्छ्रायो (मण्डपस्यामः शुकनाससमुच्छ्रिते!) ॥ ३८ ॥ हयं वा तत्र कुर्वीत चारुकर्णोपशोभितम् ।
भद्रमण्डपलक्षणम् ।। चतुरश्रीकृते क्षेत्रे नन्दनं प्रविभाजयेत् ॥ ३९ ॥ भद्रं षड्भागमायामाश्चतुर्भागं तथा (पव?)। भागभागं निष्क्रान्ते(?) स्तम्भैः प्राग्ग्रीवकल्पितैः ।। ४० ॥ पञ्चभागायता ज्ञेया कर्णे भद्रान्तरस्थिता । भित्तिः स्याद् भागविस्तारा सलिलान्तरसंयुता ॥४१॥ एवं चतुर्दिशं कार्यो नन्दनो मण्डपः सदा ।
नन्दनः ।।
महेन्द्रस्य तलच्छन्दः कर्णी लागलसंयुतौ ।। ४२ ।। चतुर्भागायतो दिक्षु दारुकर्मविभूषितः ।। द्विभागिकानि शृङ्गाणि क्षोभयेदुदुकान्तरैः ॥ ४३ ॥ चतुर्भागायतं भाग + + मेकं तु निस्सृतम् । एकतश्च मुखं दद्याद् दारुकम(परिच्युतम् ) ॥ ४४ ॥
महेन्द्रः ॥ नन्दनश्चेद बहिभदैर्जलमार्गेर्विवर्जितः । भागद्वितयविस्तारो भागमके विनिर्गती(?) ॥ ४५ ॥ प्राग्नीवपार्श्वयोर्दद्यादुच्छायोर्ध्वरदस्थितौ(?) । (वोतयेनौ वा.) कुर्वीत वर्धमानस्तथा भवेत् ॥ ४६ ॥
___ वर्धमानः ॥
"Aho Shrut Gyanam"