________________
मण्डपलक्षणं नाम षट्षष्टितमोऽध्यायः । वातायनं तदर्धेन पादोनं (द्वाटचा)वलोकनम् । क्षणमध्ये प्रकुर्वीत चतुष्की विधिवच्छुभाम् ॥ २२ ॥ क्षोभायां बाह्यतो रेखा क्षात्या द्रमं च विवर्जयेत्() । दारुकमवि(धैः धि)मध्ये यथा स्यात् कथ्यते तथा ॥ २३ ॥ समैः क्षणैः समैः स्तम्भैः समैश्वालिन्दकैर्युतः। समैः कर्णैश्च + + + समद्रव्यविधानवान् ॥ २४ ॥ षड्दारुकैस्तिरश्चीनैः कार्याः कैश्चिन्मुखायतैः । तुला समतला यद्वा प्रोत्क्षिप्रा मध्यदेशगा ॥ २५ ॥ तुलाषड्दारुकाधी(नांस्तीना तोदधीनानि तानि वा । केचिन्मन्थानसंस्थाना(लीगतियुताप) ॥ २६ ॥ अथवा मध्यतः कार्या + स्तम्भालिन्दवेष्टिताः । महाधरयुता कायों चतु(क?क्यु)भयतः समा ॥ २७ ॥ गजतालुलुमाकर्म द्रव्यैः स्यादुत्तरोत्तरैः। एते नानाविधाः कायो द्रव्येरविकलैस्तथा ॥ २८ ॥ या काचिद रोचते प्राज्ञस्तामेकां कारयेत् क्रियाम् । (ल)क्षणान्तराण्यलङ्कुर्यादिल्लीतोरणकैस्तथा ।। २९ ॥ वज्रवन्धसमायुक्ता घण्टिकापल्लवैर्युताः । हारपद्मदलाकीर्णाः शालभञ्जीविराजिताः ॥ ३० ॥ स्तम्भकाश्च विधातव्याः पश्चाभरणभूषिताः । कण्ठकैरतिचित्रैश्च रथकैस्तोरणैः सह ॥ ३१ ॥ विधानैर्विविधाकारैरूपकोपशोभितैः । एवंविधा विधातव्या सीमातुल्या(तु?स्तु)लोदयाः ॥ ३२ ॥ प्राग्नीवकेष्वलिन्देषु मध्ये भागे च पार्श्वयोः । न तलानि विधीयन्ते यथाकामं क्रिया भवेत् ।। ३३ ॥ सीमाद्वारे यथा वायोः प्रवेशं नैव पीडयेत् । (तथादरिका?) कार्या पदस्योपर्यवस्थिता ॥ ३४ ॥
"Aho Shrut Gyanam"