________________
२०१
समराङ्गणसूत्रधारे अलिन्दः सर्वतोभागनिर्गता लावविस्तृताः (१) । कदाचित् सार्धमागेन निष्क्रान्ता भागविस्तृता ॥ ९ ॥ ++ भिर्भाजयेद् भागैर्भद्रं प्राज्ञः समन्ततः । शृङ्गाणि स्युर्द्विभागानि सहितान्युदकान्तरैः ॥ १० ॥ भागं प्रमा + + + रादामूलतलमस्तकम् । शृङ्गेषु रथिका कार्यों भागपादेन निर्गता ॥ ११ ॥ भागेनैकेन निष्क्रान्तं विस्तृतं (चतुश्वतान् १) । मध्यभद्रं विधातव्यमाशासु चतसृष्वपि ।। १२ ।। पीठं प्रासादपीठस्य नात्र कुर्वीत मण्डपे । (तलपट्टे भवेच्छोकनाशोयाक्षितिरङ्गिका?) ॥ ३ ॥ तलपट्टमधस्तस्या मण्डपस्य निवेशयेत् । कर्तव्यमेवमग्रेऽग्रे निम्नं निम्नतरं ततः ॥ १४ ॥ अथवा तत्समं दद्यात स्थपतिः शास्त्रवित्तमः । चतुभागायतद्वारं पड्(द्वारुकादारुक)समन्वितम् ॥ १५ ॥ अग्रभद्रं विधातव्यं चतुस्तम्भविभूषितम् । पृष्ठतश्च भवेदेवं संमृतिश्चैत्रमण्डपे ॥ १६ ॥ संसृतेः शुकनासा स्याद् भूमिता:(१) पृष्ठभद्रकम् । शेष तथैव कतेव्यं विधानं मण्डपस्य तु ।। १७ ॥ स भित्तिभिः परिक्षिप्तः कर्तव्यः पार्श्वयोर्द्वयोः । भागेन कल्पयेद् भित्तिं गवाक्षरुपशोभिताम् ॥ १८ ॥ वातायनाश्च कर्तव्याः सह चन्द्रावलोकनैः । प्रासादद्वारवद् द्वारविस्तारो मण्डपे भवेत् ॥ १९ ॥ सपादः सत्रिभागो वा सार्धः (सौम्याथवाः) भवेत् । ऊर्ध्वद्वारवि(धेधिः) कार्यों मूलद्वारानतिकमात् ।। २० ॥ जालव्यालकपोतालीमत्तवारणकैर्युताः। भ्रमनिर्मापित स्तम्भैः कर्तव्याश्च गवाक्षकाः ॥ २१॥
"Aho Shrut.Gyanam"