SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ भूमिजपासादलक्षणं नाम पञ्चषष्टितमोऽध्यायः । २.६ प्रासादस्यास्य को यस्तथा कारयिता च यः । (प्राप्नुतामिव लोकं?) तौ नित्यानन्दसुखोदयम् ॥ १७६ ॥ हर्म्यतलकप्रासादः ।। अथातः सम्प्रवक्ष्यामि प्रासादमुदयाचलम् । चतुरश्रीकृते क्षेत्रे भुजाकर्णसमे शुभे ॥ १७७ ॥ ततः कर्णाधमूत्रेण तस्मिन् वृत्तं समालिखेत् । वर्तुलं कारयेत् क्षेत्रमशीतिपदभाजितम् ।। १७८ ॥ शालाथाष्टौ विधातव्याः पूर्वदिक्षु चतुष्पदाः । पल्लवी वृत्तसूत्रेण बाह्यतो भद्रकर्णिके ॥ १७९ ॥ कुर्याच्छालाद्वयस्यान्तः कोणानां च त्रयं त्रयम् । द्विभागायामविस्तारसलिलान्तरभूषिताः ॥ १८० ॥ एवं कोणा विधातव्या विंशतिश्चतुरुत्तरा । परिवर्तनमन्योन्यमेषां कुर्याद् यथाक्रपम् ।। १८१ ।। एत(त्सास)मप्रमाणेन गर्भ भित्तिं च वेदिकाम् । जवां च भूमिशिखरं पूर्ववत् परिकल्पयेत् ।। १८२ ।। अष्टौ च मञ्जरीः कुर्याद् युक्ता नागरकर्मणा । रुद्रेश्वरसमायुक्ता नीरधारोपशोभिताः ॥ १८३ ॥ (घण्टाकूटाश्च रेखा च स्तम्भिकाः शूरसेनकः । शुका(घा)स्कन्धविस्तारकलशेन समन्विती) ॥ १८४॥ स्वस्तिकोक्तविधानेन विदध्यादुदयाचलम् । द्वादशांशो य उत्सेधो विंशत्या तत्र भाजितः ॥ १८५ ॥ स्यात् पञ्चत्रिंशता भाज्यो+++तत्र भूमिका । पञ्चभागोच्छ्रिता कायो ततोऽन्याः सप्त भूमयः ॥१८६॥ (पदपादोच्छिता भागद्वयो यो तु वेदिका । ++++++++ सर्वलक्षणसंयुता) ॥ १८७ ॥ 1. 'प्रामुवः शिवलोकं' इति स्यात् । "Aho Shrut Gyanam"
SR No.009669
Book TitleSamarangana Sutra Dhara Part 2
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1925
Total Pages364
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy