________________
२००
समराङ्गणसूत्रधारे
भद्रे शृङ्ग प्रदातव्यं तीक्ष्णाग्रं सुमनोरमम् । पुरस्तान्मण्डपं कुर्यात् सर्वलक्षणसंयुतम् ॥ १६३ ॥ इत्येष कथितः सम्यग् वज्रस्वस्तिकसंज्ञितः । य इमं कारयेद् धन्यः प्रासादं सर्वकामदम् ॥ १६४ ॥ स स्याद् भोग्यः सुरस्त्रीणामैन्द्रं च पदमश्नुते ।
वज्रस्वस्तिकमासादः ॥
अथ हर्म्यतलं ब्रूमः प्रासादं मण्डनं भुवः ॥ १६५ ॥ चतुरश्रीकृते क्षेत्रे विस्तारायामतः समे । कर्णार्धसूत्रपातेन तस्मिन् वृत्तं समालिखेत् ॥ १६६ ॥ तद् वृत्तं विभजेत् क्षेत्रं चतुःषष्ट्या पदैस्ततः । कर्तव्या विस्तरेणास्मिन्नष्टौ शालाचतुष्पदाः || १६७ ॥ पल्लवी वृत्तसूत्रेण बाह्यतो भद्रकर्णिके । कर्णौ द्वौ द्वौ विधातव्यौ शालाद्वितयमध्यतः ॥ १६८ ॥ (विद्वि भागायामविस्तारौ सलिलान्तरभूषितौ । परिवर्तनतोऽन्योन्यं कोणान् कुर्वीत षोडश ॥ १६९ ॥ अष्टास्वपिच दिक्ष्वेवं (माना कर्मभिरन्विताः) । गर्भो भित्तिश्च वेदी च जङ्घाप्रथमभूमिकाः ॥ १७० ॥
कर्तव्याः पूर्वमानेन स्वस्तिको क्तेन तद्विदा । द्वादशांशो य उत्सेधो विंशत्या तत्र भाजितः ॥ १७१ ॥ सोऽ (त्रा)ष्टाविंशतिविधः कर्तव्य ( सू / स्त)त्र भूमिका | द्वितीया पञ्चभिर्भागैः पदपादोज्झिताः पृथक् ।। १७२ ॥ अन्याः स्युर्भूमयः पञ्च वेदी ( व्यंद्भिः) द्विभागिकाः (परा!) | चतस्रो मञ्जरीः कुर्यान्नागरैः कर्मभिर्युताः ॥ १७३ ॥ चतस्रः पुनरन्याश्च युक्ता द्रविडकर्मभिः । घण्टा स्कन्धस्य विस्तारो वेदिकाकलशोच्छ्रयौ ॥ १७४ ॥ शूरसेनः शुकाघ्रा च स्तम्भिकाकूट (वि) भक्तयः । रेखा(अ) पूर्ववत् कार्याः प्रासादस्यास्य जानता ।। १७५ ॥
"Aho Shrut Gyanam"