SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ भूमिजप्रासादलक्षणं नाम पञ्चषष्टितमोऽध्यायः । स्कन्धश्च षट्पदस्तत्र विधातव्यो विजानता । षड्गुणेनैव सूत्रेण वेणुकोशं समालिखेत् ।। १५० ।। द्वादशांशो य उत्सेधो भागानां सम + + + 1 तं कृत्वा पञ्चभिर्भागै (स्ते द्विस्तैर्द्वितीया भवेन्मही ॥ १५१ ॥ पदपादोच्छ्रिताः कार्यास्ततस्तिस्रोऽपरा भुवः । (गर्भा गर्भ) विधातव्यं भूमिकानां प्रवेशनम् ॥ १५२ ॥ वेदिका च ततः कार्या सार्धभागसमुच्छ्रिता । पादोनद्विपदा घण्टा विभजेत् तां त्रिभिः पदैः ॥ १५३ ॥ पदं स्यात् कण्ठकोत्सेधो ग्रीवा भागसमुच्छ्रिता । अण्डकं भागिकं तस्यां कर्तव्यं सुमनोरमम् ॥ १५४ ॥ कर्परं सार्धभागेन कुर्यात् सामलसारकम् । (सीस्तन चाभागायाः ? ) सार्धभागचतुष्टयात् ॥ १५५ ॥ घण्टाया विस्तरः कार्यस्तं भजेत् षद्भिरंशकैः । चतुर्भिः कन्दविस्तारात् ++++++++ ॥ १५६ ॥ सार्वभागः समुत्सेधः कलशस्य तदर्धतः । शिखरस्य त्रिभागेन शुकनासा विधीयते ॥ १५७ ॥ विस्तारा ( द ) गर्भमानेन हीना वाष्टशतो भवेत् । (विस्ताराथ सपादेनः) शूरसेनस्तदूर्ध्वतः ॥ १५८ ॥ द्वितीयभूमिकातुल्य आयभूमेः स ऊर्ध्वतः । शालाविस्तारतुल्यास्तु शूरसेनास्त्रयो मताः ॥ १५९ ॥ शाला नागरिकाचाष्टौ ग्राहग्रासविराजिताः । य इमं कारयेद् धन्यः प्रासादं स्वस्तिकं शुभम् ।। १६० ।। तस्यानुजन्म ( शातानां ?) स्वस्तिश्रीभाजनं भवेत् । स्वस्तिकप्रासादः ॥ अतः परं प्रवक्ष्यामो वज्रस्वस्तिकसंज्ञितम् ॥ १६१ ॥ प्रासादं लक्षणोपेतं शक्रादिसुरवल्लभम् । पूर्वोक्तलक्षणोपेते स्वस्तिके (दवमध्यदे ) || १६२ ॥ "Aho Shrut Gyanam" १९९
SR No.009669
Book TitleSamarangana Sutra Dhara Part 2
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1925
Total Pages364
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy