________________
समराङ्गणसूत्रधारे द्विभागो वेदिकोच्छायो भूमिकानां प्रवेशनम् । रेखावशेन कर्तव्यं शेषमेतस्य यत् पुनः ॥ १३८ ॥ तत् पूर्ववद् विधातव्यं स्तम्भकूटादि तद्विदा। सर्वागसुन्दरं योऽत्र प्रासादं कारयेदमुम् ॥ १३९ ॥ स स्वर्गसुन्दरीभोगानाप्नोति विपुलान् दिवि ।
सर्वाङ्गसुन्दरःप्रासादः ॥ अथाष्टशालान् वक्ष्यामो + ++ भूमिजातिषु ॥ १४ ॥ तेष्वाद्यः स्वस्तिकोऽन्यश्च वज्रस्वस्तिकसंज्ञितः । तृतीयो हर्म्यतलकश्चतुर्थ उदयाचलः ॥ १४१ ॥ गन्धमादनसंज्ञश्च पञ्चमः परिकीर्तितः। अथाभिधीयते तेषु +++ स्वलक्षणः ॥ १४२ ॥ चतुरश्रीकृते क्षेत्र विस्तारायामतः समे । कर्णाधे सूत्रपातेन वृत्तमस्य समं लिखेत् ॥ १४३ ।। वर्तुलं भाजयेत् क्षेत्रं षड्गुणैरष्टभिः पदैः । अष्टौ शाला विधातव्या विस्तारेण चतुष्पदाः ॥ १४४ ॥ पल्लवी वृत्तसूत्रेण + + + + + + + + । + ++ कर्णिका ज्ञेया मानमूर्ध्वमथोच्यते ॥ १४५ ॥ वेदिवन्धो विधातव्यो भागद्वितयमुच्छ्रितः। तं भजेत् पञ्चभिभोगैः+++ तत्र कुम्भकः ॥ १४६ ॥ पादयुक्तेन भागेन कर्तव्यस्तु मसूरकः । अर्धाशे(नोत्तानान्त)रं पत्रं कपोताली ततो भवेत् ॥ १४७ ।। सपादेनास्य भागेन ज(वाचा) भागचतुष्टयात् । . तलकुम्भोच्छालकाभ्यां संयुक्ता शुभलक्षणा ॥ १४८ ॥ भागद्वितयमाद्या भूः कर्तव्या सवरण्डिका | व्यासं दशपदं कृत्वा तैर्वादशभिरुच्छितिः ॥ १४९ ॥
१. 'स्वस्तिकः शुभलक्षणः' इति स्यात् । २. 'बाह्मतो भद्रकर्णिके ' इत्ययं पूरगीबांधा प्रकरणान्तरादुपलभ्यते ।
"Aho Shrut Gyanam"