________________
भूमिजप्रासादलक्षणं नाम पञ्चषष्टितमोऽध्यायः । परिवर्तनया कार्या वृत्तान्तः सोदकान्तराः । (ता तागा त्रिभागः)विभजेद् दशभिस्ततः ॥ १२५ ।। विमुच्य भूमिकाभागाञ्छेपं गर्भगृहादि यत् । तत् पूर्ववद् विधातव्यं तद्वच्च शिखरोच्छ्रितिः ।। १२६ ॥ तामेकत्रिंशता भागैः सार्धेश्व विभजेत पुनः । द्वितीयभूमिका कार्या पदैः पञ्चभिरुच्छ्रिता ॥ १२७ ॥ पदपादेन हीनाः स्युः शेषा (पदभास)भूमिकाः । वेदी (पैश्चयंः) कार्या पादोनमिह शिल्पिना ॥ १२८ ।। स्तम्भकूटादि शालानां विन्यासः शूरसेनकाः । शुकनासोच्छ्रितिघण्टा कलशादि च पूर्ववत् ।। १२९ ।। य इमं निरवद्याख्यं प्रासादं कारयेत् सुधीः । स प्राप्नोति परं स्थानं ब्रह्मादीनां सुदुलेभम् ।। १३० ॥
प्रासादः ॥ सर्वाङ्गसुन्दरं ब्रूमः प्रासादमथ सुन्दरम् । भुक्तिमुक्तिप्रदातारं (वरवालय?) मण्डनम् ॥ १३१ ॥ चतुरश्रीकृते क्षेत्रे चतुर्विंशतिभाजिते । कर्णा द्विभागविस्ताराः शाला स्यात् पञ्चभागिका ॥ १३२ ।। वृत्तान्तः पल्लवी कार्या शेषाः शालासु पूर्ववत् । त्रयस्त्रयः प्रतिरथा मध्ये स्युः कणेशालयोः ॥ १३३ ।। परिवृत्त्यया) वृत्तमध्ये द्विभागायामविस्तृताः । शालाकर्णप्रतिरथप्रान्तेषु स्याज्जलान्तरेरम्) ।। १३४ ।। त्रिचतुर्विंशतिर्भागा विभाज्याः शिल्पिभिः पुनः । विधेयं गर्भभित्यादि प्राग्वत् स्याच वरण्डिका ॥ १३५ ॥ जङ्घादिभूमिकोच्छ्रायः प्राग्व(द्वद्वा) शिखरोच्छ्रितिः । (त) पञ्चत्रिंशता भागैविभजेच्छूिखरोच्छ्रयम् ।। १३६ ॥ द्वितीया भूमिका चास्य कार्या पञ्चपदोच्छ्तिा । पदपादविहीनाः स्युः शेषाः सप्तास्य भूमिकाः ॥ १३७ ॥ 1. 'षट् चास्य' इति स्यात् । २. 'पदत्रयम्' इति स्यात् ।
"Aho Shrut Gyanam"