________________
समराङ्गणसूत्रधारे शालाकोणप्रतिरथान्तरेषु स्याजलान्तरम् । एकोनविंशतिं भागांस्तान् भजेद् दशभिः पुनः ॥ ११३ ॥ गर्भः प्राग्वत् तथा भित्तिः प्राग्वत् खुरवरण्डिका । जङ्घोत्सेधो(ऽथ) भूत्सेधः पूर्ववच्छिखरोच्छितिः ॥ ११४ ॥ ('अथाभिस्ते?)मेरारभ्य पट्टयन्तं शिखरोच्छ्रि(तिः तिम्) । भागानामष्टविंशत्या(?) विभजेत् पादहीनया ।। ११५ ॥ द्वितीयभूमिका तस्य कार्या पञ्चपदोच्छ्रिता । रेखास्तु पश्च कर्तव्याः पदपादोच्छ्रिता भुवः ॥ ११६ ॥ सार्धभागोच्छूिता वेदी प्रविधेयास्य तद्विदा । (शालास्यस्तम्भक्तयदिविभक्तयदिविभक्तिः)शुकनासिका!।११७॥ (रेखाचं चकंभस्य?) प्राग्वत स्यात् सर्वमप्यदः। शतशृङ्गमिमं कुर्याद् यः प्रासादं मनोरमम् ॥ ११८ ।। तस्यैकविंशतिकुला + + + + + + + + । कर्ता कारयिता चेति द्वावेतौ जगतां प्रभोः ॥ ११९ ॥ त्रिपुरद्वेषिणः स्यातां नियतं गणनायकौ ।
शतशृङ्गप्रासादः॥ ++++++ यामो निरवद्यस्य लक्षणम् ।। १२० ॥ स स्याज्ज्येष्ठोऽथ मध्यश्च कनीयनिाति च त्रिधा । चत्वारिंशत्करो ज्येष्ठो (पि मध्यः) त्रिंशत्करो भवेत् ।। १२१ ।। विंशत्या च करैरेष कनीयान् समुदाहृतः । चतुरश्रीकृते क्षेत्रे विंशत्या भाजिते पदैः ॥ १२२ ।। ततः कर्णद्विसूत्रेण(१) वृसमत्र प्रकल्पयेत् । कार्यो तैः पञ्चभिः शालापल्लवी वृत्त(म)ध्यतः ।। १२३ ।। शालाविभक्तिः प्राग्वत् स्याच्छालयोरेतयोः पुनः । कोणे कोणे च षद्कों + भागायामविस्तृताः॥ १२४ ॥
1. 'अथादिभू' इति स्यात् । २. शालास्य स्तम्भकूटादिभक्तयः' इति स्यात् । ३. 'प्रासादस्याथ वक्यामो' इति स्यात् । ४. 'कर्णार्धसूत्रेण ' इति पाख्यं भाति ।
Aho Shrut Gyanam