________________
भूमिजप्रासादलक्षणं नाम पञ्चषष्टिनमोऽध्यायः । चतुरश्रीकृते क्षेत्रे भक्ते ++++++ । ++ पञ्चदशांशा ये तान् भजेद दशभिः पुनः ॥ १०१॥ गर्भोऽत्र पूर्ववत् कार्यः पूर्ववद भित्तयोऽपिच । माग्वत् खुरवरण्डी स्याज्जङ्घाकूटोच्छ्रितिस्तथा ॥ १०२ ॥ पूर्ववच्छिखरोत्सेधस्तं भजेत् पादहीनया । चतुरुत्तरविंशत्या भागानां तत्र भूमिका ॥ १०३ ॥ द्वितीया पञ्चभिर्भागैश्चतस्रस्त्वपराः पुनः । पादोनपदहीनाः स्युः क्रमशश्चास्य भूमिकाः ॥ १०४॥ वेदिका चास्य कर्तव्या सपादांशसमुच्छ्रिता । शुकनासोच्छ्रितिः शालास्तम्भकूटविभक्तयः ।। १०५ ॥ रेखा स्तम्भस्य विस्तारो घण्टाकुम्भादि पूर्ववत् ।। कूटा द्राविड(काः) कार्याः प्रतिभूम्यथ (भौमज?) ॥ १०६ ।। हरो हिरण्यगर्भश्च हरिर्दिनकरस्तथा । एषामेव विधेयोऽसौ नान्येषां तु कदाचन ॥ १०७ ॥ अमुं यः कारयेद् राजा मासादं किरणाभिधम् । स दुःसहप्रताप: स्यात् सहस्रकरवद् भुवि ।। १०८ ॥
किरणप्रासादः॥ कथ्यते शतशृनोऽथ प्रासादः (शुभलक्षणः) । वल्लभः सवेदेवानां (शि)वस्य (तु) विशेषतः ॥ १०९।। चतुरश्रीकृते क्षेत्रे विंशत्यैकोन(यान्तिभे?) । कर्णा(द्विध)सूत्रेण ततो वृत्तमत्र प्रकल्पयेत् ॥ ११ ॥ कर्णा द्विभागिकाः कार्याः शाला स्यात् पञ्चभागिका । शालापल्लविका चास्य (निर्गता) वृत्तमध्यतः ।। १११॥ द्वौ द्वौ प्रतिरथौ कार्यों द्विभागायामविस्तृतौ । परं वर्तनतो वृत्तमध्य(ता.तः) कोणशालयोः॥११२ ॥ 1. 'याधिते' इति स्यात् ।
"Aho Shrut Gyanam"