________________
समराङ्गणसूत्रधारे चतुरश्रीकृते क्षेत्रे विस्तारायामतः समे। विभक्ते दशभिर्भागैर्भवेद् गर्भनिषदपदः ॥ ६४ ।। तत्र शेषेण कुर्वीत ++++ चतुष्टयम् ! + ततः कर्णसूत्रेण तत्र वृत्तं समालिखेत् ॥ ६५ ।। दिग्विदित्वष्ट कर्णाः स्युः सलिलान्त(रभूषिताः) । समन्त(?)भूमिपर्यन्तं दशभिः स्यादयं पदैः ॥ ६६ ॥ वेदीबन्धो विधातव्यः सार्धांशस्य पदद्वयम् । + + + + + + सार्घचतुर्भिविभजेत् पदैः ॥ ६७ ॥ कुम्भकं द्वि + + + + + + + + + + + + | (भागार्धनान्तरं पत्रं कपोताली च भागिका ॥ ६८ ।। वेदीबन्योऽयमित्युक्तो जङ्घोत्सेध + + + + | (स्यादधे) पञ्चमैमोगैः सोच्छालस्तलकुम्भकः ।। ६९ ॥ आधभूमौ भवेत् कूटं भागत्रितयलक्षितम् । प्रासादे पञ्चदशभिर्विभजेत समुच्छ्रयम् ।। ७० ।। द्वितीया भूमिका तत्र कार्या पञ्चांशकोच्छ्रिता । अर्धेनोच्छालकस्तम्भैः कूटोच्छायस्तथोव॑तः ॥ ७१ ॥ पादोनैः पञ्चभिभूमि तृतीयां परिकल्पयेत् । चतुर्थी रचयेद् भागैर्भुमिकामर्धपञ्चमैः ।। ७२ ॥ द्वितीयभूमिकावत् स्यात् कूटस्तम्भादिकल्पना । वे(दिकादी)भागोच्छ्रिता कार्या षट्पदा स्कन्धविस्तृतिः ॥ ७३ ।। षड्गुणेन च सूत्रेण वेणुकोशं समालिखेत् । प्रासादपञ्चमांशेन कार्यों घण्टासमुच्छ्रितिः ।। ७४ ॥ घण्टोत्सेधं ततस्तस्य त्रिभि गर्विभाजयेत् । कण्ठग्रीवाण्डकान्यस्य भागे(न नानकेन) कारयेत् ॥ ७५ ॥ षड्भागभक्तघण्टायाः समन्ताद् भागविच्युतेः । भागेश्चतुर्भिः कर्तव्ये घण्टे कण्ठस्य विस्तरम् ॥ ७६ ॥
"Aho Shrut Gyanam"