________________
भूमिजप्रासादलक्षणं नाम पञ्चषष्टितमोऽध्यायः । १९१ (द्वौ?) बालपञ्जरकस्यैतौ मध्ये प्रतिरथस्य च । प्रतीरथः पञ्जरो वा (बा)लपञ्जरकस्तथा ॥ ५१ ।। शालापल्लविकां यावदेतानि तु पृथक् पृथक् । भागाधेनिगमानि स्युभोगा येऽष्टादशोदिताः ॥ ५२ ।। विभाजयेत् तान् दशभिर्विभागैर्वास्तुतत्त्ववित् । गर्भो भित्तिः समुच्छ्रायो वेदिकाजश्योरपि ॥ ५३ ।। आधभूम्युच्छ्रितिस्तद्वदुच्छ्रायः शिखरस्य च । पासादेऽस्मिन्निदं सर्वं पूर्व(वत्) कथितं बुधैः ।। ५४ ॥ तत् पञ्चत्रिंशता भागैः पादोनैः शिखरं भवेत् । द्वितीया भूमिका कार्या ततः पञ्चपदोच्छ्रिता ।। ५५ ॥ पदपादविहीनास्तु शेषाः स्युः (सप्तः) भूमयः । पादोनभागद्वितयं वेदिकायाः समुच्छितिः ।। ५६ ॥ स्कन्धस्य विस्तृती रेखा घण्टाथ कलशस्तथा । शालायां शूरसेनाश्च स्तम्भकूटादिकल्पना ॥ ५७ ।। शुकनासोच्छूितिभूमिप्रवेशश्चेह पूर्ववत् । य इमं कारयेद् भक्त्या प्रासादं नवमालिकम् ।। ५८ ॥ तुष्यन्ति देवतास्तस्य भवन्ति च समृद्धयः ।
नवमालिकः ।। इहानीमभिधीयन्ते प्रासादा वृक्षजातयः ॥ ५९ ॥ वल्लभाः सर्वदेवानां भूमिजाः पुरभूषणम् । आश्रयः श्रेयसामेको यशसामपि राशयः ॥ ६॥ भुक्तिमुक्तिप्रदातारः (समागते कृता?) नृणाम् । तत्रायः कुमुदो नाम कमलः कमलोद्भवः ॥ ६१ ।। (किरणः शतशृङ्गश्च निरवधस्तथापरः । सर्वाङ्गसुन्दरश्चेति प्रासादा (तीक्षाजातयः ।। ६२ ।। नविस्तरान्नसंक्षेपालक्ष्मषामथ कीर्त्यते । तत्रायः कुमुदो नाम सवानन्दकुदुच्यते ।। ६३ ।।
"Aho Shrut Gyanam"