________________
समराङ्गणसूत्रधारे (पादेन पदका?)भागेन चतुर्थी भूमिका स्मृता । भागं भागं विधातव्यः प्रवेशः प्रतिभूमिकम् ॥ ८७ ॥ सपादैः पञ्चभिर्भागैः कार्यो घण्टासमुच्छ्यः। भागत्रयसमुत्सेधस्तदूधै कलशो भवेत् ॥ ८८ ॥ ++++++++++++पदाः स्मृताः । भागद्वितयविस्ताराः कर्तव्या बालपञ्जराः ।। शाला षड्भागविस्तीर्णा भागत्रि(तयमुच्छ्रिता)। (को)णप्रत्यङ्गयोमध्ये शालाप्रत्यङ्गयोस्तथा । कक्षान्तरे विधातव्यं भागिकं सलिलान्तरम् । गर्भः स्याद् दशभिर्भागैमित्तिः कार्यास्य षट्पदा । पट्पदा स्यात् तृतीयात्र + + भागोच्छ्रिताः पराः । कर्ण ++++ स्तिस्रो घण्टा चाष्टपदोच्छ्रिता ॥ कूटैरलङ्कृता कार्या शुकाघ्रादि च पूर्ववत् । स+++पि चेतेषां प्रासादान कारयेत् ।। घण्टां तु संहतां श्लक्षणां बन्धनैरुपशोभिताम | यादृशी कम ++ ने कूटेष्वेषां विधीयते ॥ भद्रेषु तादृशी कार्या कृत्स्नप्रासादसिद्धये । य इमं कारयेद् राजा प्रासादं पृथिवीजयम् ॥ भुनक्ति निखिलां पृथ्वी स सप्ताम्भोधिमालिनीम् । इतीरिता द्वादश (स्यगते?)
प्रासादमुख्याः शुभलक्ष्मयुक्ताः। वावाटसंज्ञास्तदमून् विदित्वा
(लभेत् पूज्यस्थयते नृ?)पेभ्यः ॥ इति महाराजाधिराजपरमेश्वरश्रीभोजदेवविरचिते समराङ्गणसूत्रधारनानि वास्तुशास्त्रे
(वटोक?)प्रासादो नाम चतुःषष्टितमोऽध्यायः ॥
1. 'पादोनषट्क' इति स्यात् । २. इत ऊर्ध्वं मातृकायां पत्रमेकं (२३३तम) सुखम् । ३, 'लभेत पूजा स्थपतिर्ने 'इति स्यात् ।
"Aho Shrut Gyanam"