________________
दिग्भद्रादिप्रासादलक्षणं नाम चतुष्पष्टितमोऽध्यायः । १८५ पादोनभागविस्तारं कर्तव्यं सलिलान्तरम् । गर्भस्त्रयोदशपदो भित्तयश्च चतुष्पदाः ।। ७३ ॥ ऊर्ध्वमानमर्थतस्य मस्तद् द्विगुणं भवेत् । वेदी चतुष्पदोत्सेधा जङ्घा स्यादष्टभागिका ॥ ७४ ।। सप्तभागसमुत्सेधा विधेया चादिभूमिका । मध्ये सान्तरपत्रास्याः कपोताली पदत्रयम् ।। ७५ ॥ द्वितीय भूमिका चास्य सार्धेः षड्भिः पदैः स्मृता । भागभागविहीनास्तु तिस्रोऽन्या भूमिकास्ततः ॥ ७६ ॥ घण्टा भागत्रयोत्सेधा पद्मपत्रिकया सह । स्तम्भिकाकूटभरणशुकाघ्राशूरसेनकाः ॥ ७७ ।। कलशः (कुम्भं नघाः१) प्राग्वत् तस्य भवन्त्यमी । महाभद्रामिमं योऽत्र कारयेद् भक्तिमान् नरः ।। ७८ ।। स स्वर्गे सुरनारीभिः सेव्यते मदनाज्ञया । अथ श्रीवर्धमानस्य लक्ष्म साम्प्रतमुच्यते ।। ७९ ।। चतुरश्रीकृते क्षेत्रे चतुर्विंशतिभाजिते ।। कोणाः षड्भागिकाः कार्याः शालाः स्युनेवभागिकाः ।। ८० । साधे पदद्वयं कार्यः शालानामत्र निर्गमः । कुर्याजलान्तरं तत्र मध्यतः कोणशालयोः ॥ ८१॥ विस्तृतं सार्धभागेन प्रविष्टमपि भागतः। (कोणे मध्यं?) विधातव्यं भागेनैवोदकान्तरम् ।। ८२ ॥ नवांश(क्लप्तशालायाः प्रत्यङ्गो द्वावुदाहृतौ । भागद्वितयविस्तारौ भागेनैकेन निर्गतौ ।। ८३ ॥ चतुर्दशपदो गर्भो भित्तिः पञ्चपदा स्मृता । ऊर्ध्वमानमथ मस्तदस्य द्विगुणं भवेत् ।। ८४ ॥ वेदिका षट्पदोत्सेधा जङ्घकादशभिः पदैः। प्रथमा भूमिका चास्य कार्या सप्तांशकोच्छ्रिता ॥ ८५ ॥ पादोनैः सप्तभिर्भागर्द्वितीया भूमिकेष्यते । तृतीया भूमिका षडभिः सपादैर्जायते पदैः ॥ ८६ ।। 1. 'कोणमध्ये' इति स्यात् ।
"Aho Shrut Gyanam"