________________
૨૮
समराङ्गणसूत्रधारे
प्रथमा भूमिका कार्या भागैः षड्भिः समुच्छ्रिता | शतपत्रां कपोतालीं मध्ये चास्याः प्रकल्पयेत् ॥ ६० ॥ द्वितीया भूमिका चास्य विधेया पञ्चभिः पदैः । अर्थेऽस्याः स्तम्भकोच्छालं कूटं चार्धव्यवस्थितम् ॥ ६१ ॥ ( परस्परपार्धेन हमा?) स्तिस्रोऽन्य भूमिकाः । स्तम्भिका कूटभर णशूरसेनाः सघण्टकाः ॥ ६२ ॥ कलशस्योदयश्चात्र प्राग्वत् कार्या विपश्चिता । य इमं कारयेद् भक्त्या विमानाख्यं नृपुङ्गवः ॥ ६३ ॥
इह भोगान् स लभते तथा ( सत्कायदविधेः ) | अथ पद्मप्रियमीतिजननः पद्म उच्यते ॥ ६४ ॥ चतुरश्रीकृते क्षेत्रे भक्ते षोडशभिः पदैः । कोणाचतुष्पदाः कार्याः सलिलान्तरभूषिताः || ६५ ॥ द्विपदः पञ्जरो ज्ञेयो गर्भे कोणाश्चतुष्पदाः । (भागः स्यात् षोडशांशेन तदन्ते सलिलान्तरम् ॥ ६६ ॥ गर्भः स्यान्नवभिर्भागैर्भित्तिः सार्धपदत्रयम् । ऊर्ध्वमानमथ ब्रूमस्त (था?) स्य द्विगुणं भवेत् ॥ ६७ ॥ द्वितीया भूमिका ज्ञेया भागैः पञ्चभिरुच्छ्रिता | अन्योन्यं तु पदार्धेन हीनं स्याद् भूमिकाद्वयम् ॥ ६८ ॥ स्तम्भिका कूटभरणशुका (घा) शूरसेनकाः । घण्टा (कारसः)विस्तारा भवन्त्येतस्य पूर्ववत् ॥ ६९ ॥ पद्ममासादमेनं यः कारयेद् भक्तिसंयुतः । स श्रीपतिरिव श्रीशो भवत्यवनिमण्डनः ॥ ७० ॥ महाभद्रमथ भूमः प्रासादमतिसुन्दरम् । चतुरश्रीकृते क्षेत्रे विंशत्या सैकयाङ्किते ॥ ७१ ॥ कोणाश्चतुष्पदाः सार्धद्वयंशाः प्रत्यङ्गकाः स्मृताः । शाला पश्चपदा कार्या दिक्षु सर्वास्ववस्थिता ॥ ७२ ॥
१. 'परस्परं पदार्धेन हीना' इति स्यात् । २. 'भागस्य' इति स्यात् । ३. 'कलश'
इति स्यात् ।
"Aho Shrut Gyanam"