________________
दिग्भद्रादिप्रासादलक्षणं नाम चतुष्वष्टितमाऽध्यायः ।
शाला चतुष्पदा मोक्ता चित्रकर्मोपशोभिता । पादोनभागमानेन निर्गमः स्यात् परस्परम् ॥ ४७ ॥ steersatiध्ये शालाप्रत्ययोस्तथा । भागेन विस्तृतं कार्य सर्वत्र सलिलान्तरम् ॥ ४८ ॥ गर्भः स्याद् दशभिर्भागैभित्तिर्भाग चतुष्टयात् । ऊर्ध्वमानमथ ब्रूमो द्विगुणं तत् प्रकीर्तितम् ॥ ४९ ॥ वेदtaraisशकाः पञ्च जङ्घा स्यादष्टभागिका । प्रथमा भूमिका कार्या कपोतालीसमन्विता ॥ ५० ॥ सपादैः पञ्चभिर्भागैर्द्वितीया तद्वदेव हि । तृतीया तु भवत्यस्य भूमिका पञ्चभागिका ॥ ५१ ॥ चतुर्थी भूमिका ज्ञेया सार्वभागचतुष्टया | घण्टा तस्योर्ध्वतः कार्या पदत्रयसमुच्छ्रिता ॥ ५२ ॥ शुकाघ्रा ( शूरसेनश्च स्तम्भिकाकूटभक्तयः | कलशस्योदयस्तस्य विधेयाश्वास्य पूर्ववत् ॥ ५३ ॥ अमुं यः कारयेदन्यः प्रासादं नन्दिवर्धनम् । स नन्दिगणसामान्यो जायते नात्र संशयः ॥ ५४ ॥ अतः परमथ ब्रूमो विमानं शुभलक्षणम् । चतुरश्रीकुते क्षेत्रे विंशत्या भाजिते पदैः || ५५ ॥ को (णाः) पञ्चपदाः कार्या मध्ये च सलिलान्तरम् । कर्णिका सार्वभागेन भागार्थमुदकान्तरम् || ५६ || (सालोपयदः) विस्तीर्णा सार्वभागेन निर्गता । कोणस्य चाभागेन कर्णिकानिर्गमः स्मृतः ॥ ५७ ॥ गर्भश्चास्य विधातव्यो द्वादशांश कविस्तृतः । भित्तिचतुष्पदा कार्या दिक्षु सर्वास्ववस्थिता ॥ ५८ ॥ ऊर्ध्वमानमथैतस्य ब्रूमस्तद् द्विगुणं भवेत् । वेदीबन्धोंऽशकाः पञ्च जङ्घा नवपदोच्छ्रिता ।। ५९ ।।
१. 'शाला षट्पद' इति स्यात् ।
"Aho Shrut Gyanam"
१८३