SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ भूमिजप्रासादलक्षणं नाम पञ्चषष्टितमोऽध्यायः । १८७ अथ भूमिजप्रासादलक्षणं नाम पञ्चषष्टितमोऽध्यायः । :G: भूमिजानां विमानानां ब्रूमो लक्ष्म क्रमागतम् । चतुरश्रीकृतानां च वृत्तानां (पूर्वशः १) ॥ १ ॥ केषाञ्चिन्निर्गमस्तत्र जायते भागसंख्यया । केषश्चित् पुनरेष स्याद् वृत्तमध्यमधिष्ठितः ॥ २ ॥ चतुरश्रीकृते क्षेत्रे दशभागविभाजिते । चतुर्भूमियुतस्याथ लक्ष्म ( त्संशस्य च्छन्दस्य) कथ्यते ॥ ३ ॥ चत्वारचतुरश्राः स्युर्निषधो मलयाचलः । माल्यवान् नवमाली च निषधस्तेषु कथ्यते ॥ ४ ॥ (कोणा शंभोतरो द्वयंशं भादशंभो भागिक : १) | विस्तारायामतः प्रोक्तो भद्रं पञ्चांशविस्तृतम् ॥ ५ ॥ कार्या (:) पादोनभागेन भद्रस्यैतस्य निर्गमाः । कार्या पल(विवि)का तस्य पादभागेन विस्तृता ॥ ६ ॥ भागेन कर्णिका कार्या विस्तृत्या निर्गमेण च । प्रतिभद्रं च भागार्धनिर्गतं तत्र कल्पयेत् ॥ ७ ॥ पादोनभागद्वितयं प्रतिभद्रस्य विस्तृतिः । षड्भिर्भागैर्भवेद् गर्भो भित्तिरस्य द्विभागिका ॥ ८ ॥ तलच्छन्दस्य लक्ष्मोक्तमूर्ध्वमानमथोच्यते । विस्तृतेर्द्विगुणं तच्च चतुर्भागाधिकं भवेत् ।। ९ ।। datest भवेदस्य सार्वभागद्वयोच्छ्रितः । तत्तु भागद्वयं सार्धं विभजेदपञ्चमैः ॥ १० ॥ भागद्वयेन कुम्भः स्यात् कलशो भागिकः स्मृतः । भागार्धेनान्तरं पत्रं कपोताली तु भागिकी ॥ ११ ॥ १. ' अनुपूर्वशः' इति स्यात् । "Aho Shrut Gyanam"
SR No.009669
Book TitleSamarangana Sutra Dhara Part 2
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1925
Total Pages364
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy