________________
१८१
दिग्भद्रादिप्रासादलक्षणं नाम चतुष्षष्टितमोऽध्यायः। द्विस्तरा त्रिस्तरा चापि कर्तव्या वेदिका (न?म)ता । स्तरमेकं भवेच्छेदः कण्ठस्तद्विगुणो भवेत् ॥ २१ ॥ पट्टिकां गिरिपत्री च तस्यैवार्धेन कारयेत् । दशस्तरा ततो घण्टा यदिवामलसारकम् ।। २२ ॥ द्विस्तरं स्यात् ततः पनं द्विगुणः कलशस्ततः । तदृचे भूमिका कार्या सपीठा लक्षणान्विता ॥ २३ ॥ स्तरैः स्यात् पञ्चदशभिः पीठं जङ्घापि तावता । चतुःस्तरा भवेन्माला लशुनं तु स्तरद्वयम् ।। २४ ॥ तस्या(प्यान भरणं कुम्भं कुर्वीत तत्समम् । तस्य द्विगुणमुच्छालं गण्डमेकस्तरं भवेत् ।। २५ ।। पर्ट द्विगुणमेतस्मात् कुर्यादर्धेन पट्टिकाम् । पट्टिकायाः प्रमाणेन कर्तव्या गिरिपत्रिका ।। २६ ।। वरण्डी त्रिस्तरा कार्या शूरसेनैरलङ्कृता । एकस्तरस्ततश्छेदः कण्ठस्तु द्विगुणस्ततः ।। २७ ।। पट्टिका गिरिपत्री च विधातव्ये स्तरं स्तरम् । उभौ (स्तरौ खिरिहिरं भवेच्छेदः स्तरं ततः ॥ २८ ॥ तथैव कण्ठस्तद्वच्च पट्टिकागिरिपत्रिके। वरण्डिका द्विस्तरा स्याच्छेषं पूर्ववदाचरेत् ।। २९ ॥ उभौ स्तरौ खिरिहिरं छेदं कुर्वीत भागिकम् । कण्ठश्च पत्रिका चैव गिरिपत्री च पूर्ववत् ।। ३० ॥ द्विस्तरा वेदिका कार्या (द्यवयादिकया') युता ।। छेदमेकं स्तरं कुर्यात् कण्ठं (तदाद्विगुणं ततः ।। ३१ ।। पत्रिका गिरिपत्री च तस्यैवार्धन कारयेत । स्तराष्टकन घण्टा स्याद् यदिवामलसारकम् ॥ ३२ ॥ भवेत्यम(?) + + + + कलशो द्विगुणस्ततः । स्तरमेकं भवेद् ग्रीवा कर्ण कुर्वीत तत्समम ।। ३३ ॥ १. 'घर्धपादिकया' इति स्यात् ।
"Aho Shrut Gyanam"