________________
समराङ्गणसूत्रधारे + + का गर्भपादैः षड् भित्तयः स्युद्विभागिकाः । (वर्धमानेनमथ बमो?) विस्ताराद द्विगुणं हि सा ।। ८ ॥ द्वौ भागौ वेदिकाबन्धो जङ्घा ज्ञेया चतुष्पदा । (शान्तापत्राः) कपोताली सार्धभागं समुच्छ्रिता ।। ९ ।। सार्धभागसमुच्छाया कार्या प्रथमभूमिका । द्वितीया भूमिका ज्ञेया साधभागत्रयोदया ॥ १० ॥ तृतीया च विधेया स्यात् सार्घभागद्वयोच्छ्रिता । उच्छालकं च जसा च भूमिकाध विधीयते ।। ११ ।। कूटं (!) चार्धतो देयं कर्मशोभासमन्वितम् । घण्टा भागत्रयोत्सेधा वहुभिश्वानिभिर्युता ॥ १२ ॥ कलशं स्थापयेवं भागद्वयसमुच्छिनम् । बीजपूरकसंयुक्तं वर्तुलं पल्लवावृतम् ।। १३ ।। शिखरार्थस्य कुर्वीत सपाद दयं तथा ! इमं दिग्भद्रसंझं यः मासादं कारयेत् पुमान् ॥ १४ ॥ शतक्रतुफलं सोऽपि लभते नात्र संशयः । लक्ष्म श्रीवत्ससंज्ञस्य प्रासादस्वामितीयते ।। १५ ।। चतुरश्रीकृते क्षेत्रे भक्त पञ्चदशांशकैः । (अस्योच्छ्रायो सकास्थ्यंशस्त्रं ओणस्यादेशस्थिभि.) ॥ १६ ॥ कर्णशालान्तरे कायौँ द्वयंशौ प्रतिरथावुभौ । (तयोरुभयोः सार्धं सादं तु मानों निवेशयेत् ) ॥ १७ ॥ भागमेकं प्रविष्टौ च शाला भागत्रयात्मिका । निर्गमः स्यात् पदार्थेन गर्भस्तु नवभागिकः ॥ १८ ॥ त्रिपदा च भवेद् भित्तिरूमस्याथ कथ्यते(?) । श्रीवत्सः कीर्तितः सम्प्रत्युच्यते वधमानकः ।। १९ ।। चतुरश्रीकृते क्षेत्रे + + + भागकल्पितम् । छेदादि गिरिपत्र्यन्तं दद्यात् पूर्वक्रमेण(तु) ॥ २० ॥ १. 'शतपत्रा' इति स्यात् ।
"Aho Shrut Gyanam"