SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ दिग्भद्रादिप्रासादलक्षणं नाम चतुष्पष्टितमोऽध्यायः। १७९ कुर्वीत द्विस्तरं पद्मं शेषं पूर्वक्रमेण तु । अष्टमी भूमिका या तु सा कार्या शुभलक्षणा ।। ११६ ॥ मेर्वादयो विंशतिरेवमुक्ताः प्रासादमुख्याः '+ + + + + + । भूम्यष्टकान्तास्तदिमान् विदध्यात् । स्याच्छिल्पिनां संसदि पूजनीयः ॥ ११७ ॥ इति महाराजाधिराजपरमेश्वरश्रीभोजदेवावरांचते समराङ्गणसूत्रधारनाम्नि वास्तुशास्त्रे मेवादिविंशिकानागरप्रासादभूमिजा नामाध्यायत्रिषष्टितमः ॥ अथ दिग्भद्रादिप्रासादलक्षणं नाम चतुष्षष्टितमोऽध्यायः । प्रासादमथ (वारोयं?) वक्ष्यामो नामलक्षणैः । लक्षण(१)स्तेषु दिग्भद्रः श्रीवत्सो वर्धमानकः ॥१॥ नन्द्यावर्तश्चतुर्थः स्यात् पञ्चमो नन्दिवर्धनः । विमानश्च तथा पद्मो महाभद्राख्य एव च ॥ २ ॥ श्रीवर्धमानकाख्यश्च महा(पद्मतोऽपि वा.)। एकादशः पञ्चशालो द्वादशः पृथिवीजयः ॥३॥ तत्र प्रागेव (दिग्भद्रः श्रावणः) प्रतिपाद्यते । चतुरश्रीकृते क्षेत्रे नवभागविभाजिते ॥ ४ ॥ कोणो द्विभागविस्तारः प्रत्यङ्गो भागिको स्मृतौ । शाला भागत्रया कायो नासिकात्रयशोभिता ॥५॥ परस्परं विनिष्कासमभागेन कारयेत् । कोणप्रत्यङ्गयोरन्तः शालाप्रत्यङ्गयोस्तथा ॥६॥ षोडशांशेन कुर्वीत + + + सलिलान्तरम् । सीमा(स्थाद्स्य) दशभिर्भागैः प्रविभज्य विधीयते ॥ ७ ॥ 1. 'शुभलक्ष्मयुक्ताः' इति म्यात् । २. 'वावाटम् ' इति स्यात् । ३. 'पद्मा-. मिघोऽपिवा' इति स्यात। ४. दिग्भद्रलक्षणम्' इति स्यात् । "Aho Shrut.Gyanam"
SR No.009669
Book TitleSamarangana Sutra Dhara Part 2
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1925
Total Pages364
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy