________________
१७८
समराङ्गणसूत्रधार द्वादशां(श)मि(दंत) पाठं जङ्घा (माहा) तदर्धतः । माला तु द्विस्तरा प्रोक्ता लशुनं तत्समं भवेत् ॥ १०३ ॥ भरणं स्तरमेकं तु द्विभागः कलशो भवेत् ।। उच्छालकं च तत्तुल्यं गण्डो भागं विधीयते ॥ १०४ ॥ कुर्वीत द्विस्तरं पर्ट भागेनैकेन पट्टिकाम् । पूर्ववद् गिरिपत्रीं + + स्तरां तु वरण्डिकाम् ॥ १०५ ॥ स्तरमेकं भवेच्छेदः कण्ठस्तद्विगुणस्ततः । पूर्ववत् पत्रिके द्वे तु द्वयंशं खिरिहिरं भवेत् ।। १०६ ॥ छेदः कण्ठः पट्टिका च गिरिपत्रीति भागिकाः। द्विस्तरा तिलनासा स्याच्छेदः कार्यस्तु भागिकः ॥ १०७॥ द्विस्तरः स्यात् ततः कण्ठो भागिका कण्ठपट्टिका । भागिकी गिरिपत्री च विधातव्या ततः परम् ।। १०८ ।। पञ्चस्तरा(न्) विभागोना(न्) कुर्यादामलसारकम् । त्रिस्तरं स्यात् ततः ++ शेषं पूर्वक्रमाद् भवेत् ॥ १०९ ॥ पञ्चम्यां भूमिकायां तु पीठं स्याद् द्वादशस्तरम् । जङ्घा पञ्चस्तरा मेठा माला च स्याद् द्विभागिकी ।। ११० ॥ अर्धस्तरेण लशुनं स्तरेण भ(?रणं) भवेत् । कुम्भ गण्डेन सहितं स्तरं कुर्याद् विचक्षणः ॥ १११ ।। उच्छालं द्विस्तरं कुर्याद् गण्डो भागं विधीयते । पट्टः साधेस्तरः कार्यः पट्टिका तु स्तरं भवेत् ॥ ११२ ॥ तत्समा गिरिपत्री च त्रिस्तरा तु वरण्डिका। छेदो भागत्रिभोगं कण्ठस्यार्धे गुणस्ततः(१) ॥ ११३॥ पत्रिके द्वे तु भागिक्यौ + स्तरा तिलनासिका। अर्धप्रस्तारयुक्तासौ कार्याथ प्रस्तरान्विता ॥ ११४ ।। छेदं भागेन कुर्वीत कण्ठं तद्विगुणं ततः। (अर्धमस्तरं?) पूर्ववत् पत्रिके द्वे तु घण्टा स्तरचतुष्टयम् ॥ ११५ ॥ १. भागं त्रिभागोनं कण्ठश्वार्धगुणस्ततः' इति स्यात् ।
"Aho Shrut Gyanam"