________________
मेर्वादिविशिकानागरप्रासादलक्षणं नाम त्रिषष्टितमोऽध्यायः। (प्राग्वकाशिखिरिहिरं) कुर्याच्छेदं पूर्वक्रमेण च । द्विस्तरा तिलनासा (तु) विधातव्या विपश्चिता ।। ९० ॥ कुर्वीत भागिकं छेदं ततः कण्ठा?ण्ठं) द्विभागि(की कम)। पट्टिको भागमेकं च तत्समां गिरिपत्रिकाम् ।। ९१ ॥ घण्टा सप्तस्तरा प्रोक्ता पमं द्विस्तरमुच्यते । द्विगुणः कलशस्तस्यां छेदं पूर्ववदाचरेत् ।। ९२ ॥ ऊवं स्यात पञ्चमी भूमिः पीठमेकादशस्त(तर)म् । तद्वन्महाः) भवेज्जङ्घा माला च त्रिस्तरा ततः ॥ ९३ ।। साधस्तरं स्याल्लशुन स्तरेण भरणं भवेत् । कुम्भं गण्डक संयुक्तं कुर्यात् सार्धस्तरं बुधः ॥ ९४ ॥ उच्छालं द्विस्तरं प्रोक्तं स्तरं गण्डो विधीयते । द्विस्तरः स्यात् (तरः?) पट्टः पदृस्यार्धन पट्टिका ।। ९५ ॥ तत्समा गिरिपत्री च त्रिस्तरा तु वरण्टिका। स्तरमेकं भवेच्छेदः कण्ठस्तद्विगुणस्ततः ॥ ९६ ।। तदर्थ पट्टिका कार्या तथैव गिरिपत्रिका । स्तर(क)द्वय विरिदिरं तदध छेदमाचरेत् ।। ९७ ॥ एवं कण्ठः पट्टिका च स्याल तथा गिरिपत्रिका । द्वौ स्तरौ तिलनासा स्वाच्छेदः साधेक(रो?रा)यतः ॥ ९८ ।। कण्ठं तद्विगुणं कुर्याद् भागेनैकेन पट्टिकाम् । तत्समा गिरिपत्री स्याद् घण्टा पञ्चस्तरा भवेत् ।। ९९ ॥ कुर्वीत द्विस्तरं पचं शेषं पूर्वक्रमात ततः । ततो भूमिर्भवेत् षष्ठी पीठं तत्राभिधीयते ।। १००॥ द्विस्तरा भूमिरजा स्या(तुलः)खुरकस्ततः । छेदो भवेत् तदर्धेन ततः कण्ठः स्तरद्वयम् ॥ १०१॥ पट्टिका भागमेकं स्याद् भागं च गिरिपत्रिका । वरण्डी द्विस्तरां कुर्यात् तदर्ध छेदमादिशेत् ॥ १०२ ॥
१. 'प्राग्वत् स्विीरहिरं ' इति स्यात् । २. 'न्मेढा' इति स्यात् । ३. 'तत्तुल्यः' इति स्यात् ।
"Aho Shrut Gyanam"