________________
समराङ्गणसूत्रधारे
स्तरमेकं भवेच्छेदस्ततः कण्ठः स्तरद्वयम् । पट्टिका भागमेकं च तत्सम गिरिपत्रिका ।। ७७ ॥ त्रिभागं शिखरं कुर्याच्छेदं मे(रु.)तु भागिकम् । एकं कण्ठं प्रकुर्वीत (पथिकां गिस्तरं?) विदुः ।। ७८ ॥ स्तरमेकं भवेत कण्ठः पट्टिकापि च तत्समा । गिरिपत्रीं च कुर्वीत भागार्धन विचक्षणः ॥ ७९ ॥ (द्वाय)पादिकया युक्ता त्रिस्तरा स्याद वरण्डिका । छेदं कण्ठं च कुर्वीत पूर्वमानेन बुद्धिमान् ॥ ८० ॥ पट्टिका गिरिपत्री च भागं भागं विधीयते। द्विस्तरं शिखरं कुर्या(त् तथा) छेदं तु भागिकम् ॥ ८१ ॥ एवं कण्ठं प्रकुर्वीत +++ ++ पट्टिकाम् । वरण्डिका (द्विभास्योहकारेण?) समन्विता ॥ ८२ ॥ छेदं कण्ठं च पत्री च गिरिवर्ती त्रिभागिका(?) । प्राग्वद् (विरिहिर?)कुर्याद् यथाशोभं प्र+++ ।। ८३ ॥ चतुर्थी भूमिका चोर्ध्व कर्तव्या लक्षणान्विता । त्रयोदशस्तरं पीठं मध्यजङ्घा च तत्समा ॥ ८४ ।। चतुःस्तरा भवेन्माला तदर्ध लशुनं ततः। कुम्भं तेन समं (कार्यमुकुर्यादु)च्छालं द्विस्तरं भवेत् ।। ८५ ॥ तस्याघे गण्डकं कुर्यात् पढें तद्विगुणं ततः । पट्टिका गिरिपत्री च विधातव्ये स्तरं स्तरम् ॥ ८६ ।। घरण्डी त्रिस्तरा कार्या छेदमेकस्तरं विदुः। कुर्वीत द्विस्तरं कण्ठं तदर्धेन तु पट्टिकाम् ।। ८७ ॥ तत्समां गिरिपत्री द्वौ स्तरौ (सिरिहिरं?) ततः । छेदः कण्ठः पट्टिका च गिरिपत्रीति भागिकाः ॥८८ ॥ धरण्डी द्विस्तरा कार्या ततश्छेदः स्तरं भवेत् । कण्ठश्च पत्रिका चेति गिरिपत्रीति भागिकाः॥ ८९ ।।
१. 'रथिको त्रिस्तरां' इति स्यात् । २. 'छेदः कण्ठश्च पत्री च गिरिपत्रीति मागिकाः' इति स्यात् ।
"Aho Shrut Gyanam"