________________
मेर्वादिविंशिकानागरप्रासादलक्षणं नाप त्रिषष्टितमोऽध्यायः। १७५ छेदं कण्ठं च पीठं च (प्राग्ववामलसारकंण्ठं कुर्यात् तथापरम्) । पूर्ववद् गिरिपत्री च द्विस्तरां वेदिकां ततः ॥ ६४ ।। छेदं कुर्यात् तदर्थं च ततः कण्ठं स्तरद्वयम् । गिरिपत्रीं ततः कुर्यात् स्तरमेकं सुशोभनाम् ।। ६५ ॥ चतुरश्रप्रमाणं च कुर्यादामलसारकम् । पद्मपत्रं तु तस्याधमुपरिष्टात् प्रकल्पयेत् ।। ६६ ॥ चतुःस्तरो भवेत् कुम्भः स्तरं कण्ठस्ततो भवेत् । स्तरमेकं ततः कर्णो द्विरतरं बीजपूरकम् ॥ ६७ ॥ चतुर्भिः कूटविस्तारं ततो (भागे विराजयेत्?) । द्विभागं मञ्जरी कार्या (स्त?शू)रसेनैरलङ्कृता ।। ६८ ॥ वरण्डिकाख्यो बन्धश्च भागं भाग (भागं?) भवेत् ततः। विस्ता(राद्) मूलमअयोः शुकनासा प्रकल्पयेत् ॥ ६९ ।। अथ निर्णीयते द्वयर्धपादाख्यं तत्र विस्तृतिः । उच्छायाद द्विगुणा कार्यो पञ्चभागक्रमोऽथवा ।। ७० ॥ शूरसेनोऽथवा कार्यः शुक)नासास्त्रि (वेधे, त्यसौ । कृत्वा त्रिभागमुच्छ्रायं (चमकरं चोर्ध्वभागिकम् ॥ ७१ ॥ स्तम्भयुक्तं गुणद्वारं (स्योतस्थोधिः संप्रताम् ?) । अर्धप्र(श?)स्तरसंयुक्तं कुर्यात् + पार्श्वयोद्वयोः ।। ७२ ॥ कर्तव्यं गर्भकूटं वा शुभं तत्र विपश्चिता । द्वितीयभूमिकायां तु पीठं सा(स्त?)दशस्तरम् ॥ ७३ ॥ (मेलान्ततोवती?) जङ्घा माला कार्या चतुःस्तरा । लशुनं द्विस्तरं प्रोक्तं स्तरं भरणमिष्यते ॥ ७४ ॥ कुम्भं(?) तद्वत् प्रकर्तव्यमुच्छालं द्विगुणान्वि(तः तम्)। गण्डकः स्तरमेकं स्यात् ततः पट्टः स्तरद्वयम् ।। ७५ ।। अर्धेन पट्टिका कार्या तथैव गिरिपत्रिका । (सू?स्त)रत्रयं वरण्डी स्याच्छ्रसेनैरलङ्कृता ।। ७६ ॥ 1. 'भागैर्विभाजयेत् । इति पाठः स्यात् ।
"Aho Shrut Gyanam"