SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ १७२ समराङ्गणसूत्रधारे प्रासादगर्भमुत्सृष्टं यच्छेषं तेन कल्पयेत् । सहान्धारिकया सर्वां?) समभागेन पूर्ववत् || २५ | मे (वाव) द्या ये विमानान्ताः ( सं +2 ) पूर्व प्रकीर्तिताः । शस्तांस्ते (मृज्य) लिङ्गानामन्येषां तु भयाव (हम् ? हा) || २१ || वाक्षमुख्या ये तूक्ता नन्दिवर्धनपश्चिमाः । (तष्टोऽष्टौ शुभा मध्यमानामन्येषां दुःखदाः स्मृताः ॥ २७ ॥ हंसादयः समुद्रान्ताः पञ्च ये समुदाहृताः । प्रशस्तास्ते समुद्दिष्टा लिङ्गानां (विधीयसाः) ।। २८ ।। मन्दरस्तु करात् कार्यश्चत्वारिंशत्तु +++। ++++++लासो विमानोषष्टिताः (१) ।। २९ ॥ हस्तद्वात्रिंशता कार्यः प्रासादो नन्दिवर्धनः । हस्तांस्तु नन्दनस्त्रिंशत् सर्वतोभद्र एव च ॥ ३० ॥ अष्टाविंशतिमष्टा(भिः श्रिः) षोडशा ( श्रि)स्त्रिभिर्विना | वर्तुलः पद्मकः श्वेतो विमानच्छन्द एव च ।। ३१ ।। एते द्वादशस्ताः + कार्या विंशतिहस्तकों (?) | गजः सिंहश्च कुम्भव वलभीछन्द (क) स्तथा ॥ ३२ ॥ चत्वार एते तुल्याः स्युर्हस्तोन्मेडसमानतः ( 2 ) | वाक्षो मृगराजच विमानच्छन्द एव च ॥ ३३ ॥ एते द्वादशहस्ताः (स्युः) प्रमाणेन पृथक पृथक् । दशहस्तो भवेद् वास गरु (ते डोs)टकरः स्मृतः ॥ ३४ ॥ एतैः प्रमाणैः प्रासादा (न्) कुर्यादित्यपरे स्थिताः | एकहस्ता द्विहस्ताच (त्रि) हस्ता ये च कीर्तिताः ॥ ३५ ॥ यक्ष नागग्रहादीनां विधेया रक्षसां च ते । विधिरेष समुद्दिष्टः प्रासादानां समासतः ॥ ३६ ॥ विशेषेण पुनर्ब्रूमो विमानं शुद्धपुष्पकम् । चतुरश्रीकृते क्षेत्रे पञ्चत्रिंशद्विभाजिते ।। ३७ ॥ १. ' सप्त' इति स्यात् । "Aho Shrut Gyanam"
SR No.009669
Book TitleSamarangana Sutra Dhara Part 2
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1925
Total Pages364
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy